________________ 271 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः माधुर्य संवदन्तीत्येवं शीलं वचो यस्याः तादृशी मधुरवाग्वचस्विनी प्रियङ्कराऽपि तां केशरां प्रत्यभ्यधित जगौ, किमित्याह / आलि ! सखि ? त्वमपि अस्य वसन्तदेवस्य यथोचितम् उचितमनतिक्रम्य सत्कारादि कुरु, तत्र हेतुमाह-अत्र वसन्तदेवे ते तव जयन्तिदेववत्स्वसोदर जयन्तिदेववत् प्रियता प्रेम युज्यते भ्रातुमित्रं प्रति स्वसुरपि प्रमावश्यकमिति भावः // 40 // अथ केशराप्रतिवचनमाह-औत्सुक्येति औत्सुक्यमन्दाक्षमदप्रमादभीप्रसञ्जनाऽऽव्याकुलिताशयाऽपि सा / प्रत्याह तां प्रत्ययितां प्रियङ्करां सखि ? त्वमेवाऽस्य समाचरोचितम् // 41 // औत्सुक्यस्य वसन्तदर्शनादावुत्सुकतायाः मन्दाक्षस्य त्रपायाः ‘मन्दाक्षं हीस्त्रपा' इत्यमरः मन्दाक्षस्य प्रमादस्य भियश्च प्रसञ्जनेन प्रसङ्गेन रागाद् भावसन्धिसमुदयेन आव्याकुलितः आप्लुत आशयो यस्याः सा तादृशी अपि सा केशरा तां प्रत्ययितां विश्वस्तां प्रियङ्करां प्रति आह, किमित्याह सखिः त्वम् प्रियङ्करा एवास्य वसन्तदेवस्योचितं प्रसङ्गोचितं सत्कारादि समाचरकुरु // 41 // अथ प्रियंकराप्रवृत्तिमाह-स्वेति स्वप्राङ्गणासन्नसमुद्गतानत-प्रियङ्गुशालाद् नवमन्जरीस्ततः / उच्चित्य ककोलफलान्यथ प्रियं प्रियङ्करेनं निजगाद सादरम् // 42 // ततः केशराकृतनियोगानन्तरम् प्रियङ्करा स्वप्राङ्गणस्यासन्ने समीपे संमुद्गतादुत्पन्नादानतात्फलादिभारनम्रात् प्रियङ्गोः शालात् तदाख्यवृक्षविशेषात् नवमज्जरीः ककोलफलानि च उच्चित्यावचित्य, अथान्तरमेनं वसन्तदेवं प्रियं सादरं निजगाद // 42 // तदुक्तिमेवाह-एषेति एषा ममाऽऽलिः कुसुमानि पाणिना समुत् समुच्चित्य फलानि च स्वयम् / त्वं मे मियोऽसीति समाकुला हिया समर्पयत्येव मया विभिन्नया // 43 // एषा ममालिः सखी " आलिः सखी वयस्ये "त्यमरः केशरा त्वं वसन्तदेवः मे मम प्रियोऽसीति हेतोः समुद् हर्षवती स्वयं पाणिना कुसुमानि फलानि च समुच्चित्य अवचित्य ह्रिया लज्जया समाकुला इति हेतोः मया विभिन्नया द्वारा एव समर्पयति ददाति // 43 // अथ वसन्तदेवस्य फलादिग्रहणाद्याह-पुष्पाणीति पुष्पाणि ककोलफलानि चाऽऽददे प्रियङ्करायाः करवारिजन्मनः / एतत्मियाप्रेषितमित्ययं विदन् वहन् प्रमोदं वचसोऽप्यगोचरम् // 44 //