________________ मा० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 271 कुतस्तोष इत्यतस्तत्समर्थयति- यद्यतः प्रियाया अवलोकादवलोकनादधिकमपरमन्यत्सम्मदे हर्षाय न नैव भवति, प्रियावलोकनं प्रियतृप्तिकरमिति भावः // 36 // अथ वसन्तदेवावलोकनमाह-गृह्णन् इति गृह्णन् स चाऽऽलोकितया सरागया जयन्तिदेवस्य करात् सुमस्रजम् / कल्याणरूपं शकुनं तदेतदित्यभूत् तदाऽभवत् सम्मद एतयोर्द्वयोः // 37 // स वसन्तदेवश्च सरागया रागवत्या तया केशरया जयन्तिदेवस्य करात्सकाशात्सुमनजं पुष्पमाल्यं गृह्णन्नावलोकि दृष्टः, तद् एदत् परस्परं विशिष्टावस्थायां दर्शनरूपं शकुनं शुभनिमित्तं कल्याणरूपं शुभसूचकमिति हेतोः तदा परस्परावलोकनकाले एतयोर्द्वयोः केशरावसन्तदेवयोः संमदो हर्षोऽभूत् // 37 // अथ धायास्तनयोर्भावाववोधमाह-धात्रीति धात्रीतनूजाऽभिधया प्रियङ्करा समीपगा भावमबुद्ध सा तयोः / वर्ष्याः सतां किं न भवन्ति संततं परेङ्गितज्ञानफला हि बुद्धयः ? // 38 // तयोः केशरावसन्तदेवयोः समीपगा समीपस्था सा धात्र्याः तनूजा पुत्री अभिधया प्रियङ्करा भावम् तयोराशयमबुद्ध ज्ञातवती तज्ज्ञाने हेतुमाह सतां बुद्धिमतां किं न वर्ष्याः निरूपणीया भवन्ति ? अपि तु सर्वे एव पराशयादिरूपार्थाः ज्ञेया भवन्तीत्यर्थः हेतुमाह हि यतः बुद्धयः परस्यान्यस्येङ्गितस्याशयस्य ज्ञानं फलं यासां ताः तादृश्यः भवन्तीति शेषः बुद्ध्या परेगितादि अनुमीयते इत्यर्थः // 38 // अथ वसन्तदेवसमादरमाह-श्रीमदिति श्रीमद्वसन्तं स जयन्तिरादरादहार्यभक्तयाऽभ्यवहार्य तं स्वयम् / कर्पूरताम्बूलविलेपनांशुकैरनेकधा सत्कुरुते स्म विस्मयः // 39 // स जयन्तिः जयन्तिदेवः स्वयम् अहार्यभक्तचा अकृत्रिमप्रेम्णा तं श्रीमन्तं वसन्तं वसन्तदेवमादरादरपूर्वकमभ्यवहार्य भोजयित्वा विस्मयः विगताभिमानः सन् कर्पूरताम्बूलैः स कपूरै स्ताम्बूलैः विलेपनैश्चन्दनैः अंशुकैः वस्त्रादिमिश्चानेकधाऽनेकैः प्रकारैः सत्कुरुते स्म सत्कारमकरोत् // 39 // अथ प्रियकराकृतकेशरासम्बोधनमाह-माधुर्येति माधुर्यसंवादिवचा वचस्विनी प्रियङ्कराऽप्यभ्यधिताऽथ तां प्रति / आलि ! त्वमप्यस्य यथोचितं कुरु जयन्तिवत् ते प्रियताऽत्र युज्यते // 40 //