________________ 270 श्रीशान्तिनाथमहाकाव्यम अष्टादशः सर्गः। अथ वसन्तदेवस्य जयन्तिदेवेन मैत्रोप्रसङ्गमाह-पतदिति एतद् विमृश्य स्वहृदा वसन्तको जयन्तिदेवेन सह प्रचक्रमे / सौहार्दमाधातुममुष्यमन्दिर-प्रसङ्गगत्यागतिकर्मनिर्मितेः // 33 // एतदुक्तप्रकारं स्वहृदा विमृश्य वसन्तको वसन्तदेवः जयन्तिदेवेन सह सौहार्दै मैत्रीमाधातुं कर्तुममुष्य जयन्तिदेवस्य मन्दिरे गृहे प्रसङ्गेऽवसरे गत्यागतिकर्मणः गमनागमनक्रियायाः प्रचक्रमे प्रवृत्तोऽभूत् , गृदगमनागमनादिभिः मैत्री भवतीति // 33 // अथ तयोमैत्रावृद्धिमाह-सौहार्देति सैहार्दकल्पद्रुम एव सदसै-स्तयोनियत्या नियतं प्रवर्धितः / भावी वसन्ते फलवान् शनैः-शनै-यदेष पूर्व सुमितोऽथ पत्रितः // 34 // तयोः वसन्तदेवजयन्तिदेवयोः सौहार्दकल्पद्रुमः मैत्रीकल्पवृक्षः नियत्या भाग्येन कृत्वा नियतं निश्चयेन सद्भिः अधिकैः रसैरनुरागैः अथ च जलैः प्रवर्धितः वृद्धि प्रापितः वसन्ते वसन्तदेवविषये, अथ च वसन्तौं, यद्यतः एषः मैत्रीकल्पवृक्षः पूर्व शनैः शनैः सुमितः पुष्पितः अथ च पत्रितः नवपत्रवान् जातः आकारप्रकारैर्वृद्धि गतश्च, अतः फलवान् भावी भविष्यति, / अत्र मैत्रीकल्पद्रुमयोः श्लेषातिशयोक्तिजीवितरूपकम् // 34 // अथ वसन्तदेवनिमन्त्रणमाह-सन्तमिति सन्तं वसन्तं सुजनं निमन्त्र्य तं जयन्तिदेवः स्वगृहेऽन्यदाऽनयत् / औचित्यनैचित्यभृतो महाशयाः कुत्राऽपि किं नाम परिस्खलन्त्यमी ? // 35 // अन्यदैकदा जयन्तिदेवः सुजनं सुपुरुषं सन्तं सज्जनं च तं वसन्तं वसन्तदेवं निमन्त्र्य स्वगृहे आनयत्, तदानयनमेव समर्थयति औचित्यस्य प्रसङ्गे मित्रादिनिमन्त्रणादिरूपस्य नैचित्यं राशिं बिभ्रतीति तादृशः औचित्यज्ञाः अमी जयन्तिसदृशा महाशयाः उदारमनसो जनाः किं कुत्रापि परिस्खलन्ति औचित्याद् भ्रश्यन्ति नाम ! नैवेत्यर्थः, अवसरे निमन्त्रणादिना मित्रादेरौचिती कुर्वन्त्येवेति भावः // 35 // अथ तत्र केशरावलोकनमाह-तत्रेति तत्राऽर्चयन्ती कुसुमैः सुमायुधं तदेकतानां समवेक्ष्य केशराम् / तोषं वसन्तो बिभराम्बभूव यत् प्रियाऽवलोकादपरं न संमदे // 36 // तत्र जयन्तिदेवगृहे कुसुमैः कृत्वा सुमायुधं कामदेवमर्चयन्तीम् तदेकतानां कामपूजामनाम् केशराम् समवेक्ष्य वसन्तो वसन्तदेवः तोषं मनस्तृप्तिं बिभराम्बभूव धारयामास, ननु-दर्शनमात्रेण