________________ 269 आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ प्रियङ्करकृतोत्तरमाह-स इतिसोऽप्यब्रवीद् नामत एव केशरां जयन्तिदेवस्य सुवासिनीमिमाम् / आनन्दिनी देव ! निबोधनन्दिनीं महेभ्यचूडामणिपञ्चनन्दिनः // 29 // स प्रियङ्करोऽप्यब्रवीत्, किमित्याह- देव ? वसन्तदेव ? महेभ्यचूडामणे: श्रेष्ठिश्रेष्ठस्य पञ्चनन्दिनः पञ्चनन्दीत्याख्यस्य आनन्दिनी जयन्तिदेवस्य तदाख्यस्य नन्दिनी पुत्रीमिमां प्रत्यक्षदृश्यमानाम् सुवासिनी भगिनीम् नामतः केशराम् केशरानाम्नीमेव निबोध // 29 // अथ घसन्तदेवचिन्तामाह-एतदिति एतद् निशम्याऽपि वसन्तदेवको विचिन्तयामास निजेन चेतसा / लभ्या कथङ्कारमियं सुराङ्गनासमानसौन्दर्यगुणा मयाऽर्थिना // 30 // एतत्प्रियङ्करोक्तं निशम्यापि निशम्य च वसन्तदेवकः वसन्तदेवः निजेन चेतसा विचिन्तयामास, किमित्याह- अर्थिना केशरेच्छुना मया वसन्तदेवेन सुरांगना समानः देवीतुल्यः सौन्दर्यगुणो यस्या सा इयं दृश्यमाना केशरा कथङ्कार केनोपायेन लभ्या प्राप्या ? // 30 // अथ चिन्तान्तरमाह-अभ्यर्थमानेति____ अभ्यर्थमानाऽपि मया न दास्यते धनेश्वरेणाऽपि विदेशजन्मना / - एषा पितृभ्यां न च बान्धवेन यत् किमीदृशी स्यात् प्रियता लघीयसी ? // 31 // धनेश्वरेण धनाढयेनापि मया वसन्तदेवेन विदेशजन्मना विदेशेऽन्यदेशे यज्जन्म तेन हेतुना अभ्यर्थमाना स्वयं याच्यमानाऽपि / एषा केशरा पितृभ्यां मातापितृभ्यां न दास्यते, विदेशजन्मा हि अज्ञातकुलशीलो भवतीति भावः, बान्धवेन केशरा परिजनेनापि च न दास्यते / यद्यतः प्रियता प्रेम ईदृशी अज्ञातकुलशीलदानप्रयोजिका लघीयसी स्वल्पतरा स्यात्किम् ? नैवेत्यर्थः / प्रेमाल्पत्व एव कन्या कुलाद्यविचार्यैव कस्यापि दीयते, नान्यथेति भावः // 31 // अथ वसन्तदेवस्योपायचिन्तामाह-तदिति तत्सोदरेणैव जयन्तिना समं वितन्वतः प्रेम परं मम ध्रुवम् / सा सानुरागा भविनी यतो मतं मनः प्रकाशान्तरनिर्व्यपेक्षकम् // 32 // ___तस्याः केशरायाः सोदरेण भ्रात्रा "भ्राता तु स्यात् सहोदरः" इत्यभिधानचिन्तामणिः जयन्तिना तदाख्येनैव समं सह परमुत्कृष्टं प्रेम वितन्वतः कुर्वतः सतो मम वसन्वदेवस्य ध्रुवम् स केशरा सानुरागा मयि प्रीतिमती भविनी भविष्यति, यतः मनः प्रकाशान्तरस्य निर्व्यपेक्षकम् अपेक्षारहितम्, मनः सामग्रीसत्त्वे स्वयमेव कुत्रापि अनुरज्यते, न तु तत्र सहायान्तरमपेक्षते इति सान्निध्यात्सा मयि सानुरागा भविष्यतीति // 32 //