________________ 268 wwwwwwwwwwwwwwwwwwwwwww श्रीशान्तिनाथमहाकाव्यम् अष्टदशः सर्गः अथ वसन्तदेवस्य धनार्जनमाह आपृच्छयेति-- आपृच्छय वप्तारमसौ परेद्यवि-वसतदेवो विभवाऽर्जनेच्छया। यातो जयन्त्यां पुरि तत्र चार्जयद् धनानि कुर्वन् व्यवहारमादरात् // 25 // परेघवि एकदा असौ सुधनजीवः वसन्तदेवः विभवस्य धनस्यार्जनेच्छया वप्तारं पितरमापृच्छय पितुरनुज्ञां प्राप्य जयन्त्यां पुरि यातः गतः तत्र जयन्तीपुरे च आदरात्सदाशयपूर्वकं व्यवहारं वणिक्कर्म कुर्वन् धनानि आर्जयदुपार्जयत् // 25 // अथ तस्योद्यानगमनमाह-स इति सोऽन्येधुरुधानमियाय नन्दनं जयत् स्वलक्ष्म्या रतिनन्दमाह्वयम् / चन्द्रोत्सवं द्रष्टुमदृष्टसाध्वसो यदृच्छयाऽतुच्छतयाऽष्टमीदिने।॥२६॥ अन्येद्यरेकदा सः वसन्तदेवः अदृष्टसाध्वसः निर्भीकः सन् अष्टमीदिने अतुच्छतया महत्या यदृच्छयाकृत्वा चन्द्रोत्सवं द्रष्टुम् स्वलदम्या स्वशोभया कृत्वा नन्दनं प्रसिद्धदेववनं जयत् पराभवदतिनन्दनाह्वय मुद्यानमियाय ययौ, अष्टमीदिने चन्द्रोत्सवो भवतीति भावः // 26 // अथ तत्रान्योन्यकेशरावसन्तदेवयो रागाधानमाह तत्रेति - तत्राऽऽगतां वीक्ष्य स चापि केशरां सरागचेताः समजायत क्षणात् / सा तं च सातं ददतं सुचक्षुषां भवान्तरोत्था मियता हि नान्यथा // 27 // सत्रोद्याने स वसन्सदेवश्चापि आगतां केशरां तदाख्यवणिक्सुतां वीक्ष्य क्षणात्तत्कालमेव सरागचित्तकेशरायां प्रीतिमान् समजायत, सा केशरा च सातं सुखं, ददतम् दर्शनेनेति भावः तं वसन्तदेवं वीक्ष्य सरागचेताः समजायतेत्याल्लभ्यते, नन्वेवं कुतो जातमिति चेत्तत्राह-हि यतः सुचक्षुषां सम्यग्दष्टीनाम् भवान्तरोत्था भवान्तरजातप्रीतिजन्या, प्रियता भवतीति शेषः; अन्यथा भवान्तरहेतुं विना, न नैव // 27 // अथ वसन्तदेवस्य केशराजिज्ञासामाह पार्वेति पार्श्वस्थितं स्वस्य स वाणिजाङ्गजं प्रियङ्करं नाम मनःप्रियङ्करम् / इत्यन्वयुक्तार्थ! मनोरमाकृति-स्त्वियं किमाख्या बत! कस्य वा सुता ? // 28 // स वसन्तदेवः पार्श्वस्थितं स्वस्य मनःप्रियङ्करं प्रियमित्रम् प्रियङ्कर नाम वाणिजाङ्गजम् वणिक्पुत्रमितीत्थमन्वयुक्त पप्रच्छ, इतीति किमित्याह-इयं दृश्यमाना मनोरमाकृतिः सुन्दरस्वरूपा, स्वित्यौत्सुक्ये, किमाख्या किं नाम्नी, बतेति हर्षे, तथा वा कस्य सुता, अस्तीति शेषः // 28 //