SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 267 त्वयि द्रोणजीवे गर्भे अवतीर्णे प्राप्ते सति यद्यतः परमतिशयेन अम्बया त्वन्मात्रा स्वप्ने मुखे विधुश्चन्द्रो विशन्नुदैक्षि दृष्टः, तेनैव हेतुना वप्ता त्वत्पिता महे जन्मोत्सवे प्रवृद्धे जाते सति कुरुचन्द्र इति तव नामापि निर्ममे // 20 // अथ सुधनपुनर्भवमाह संम्प्राप्येति-- संपाप्य मृत्युं सुधनो वणिक्सुतः क्रमेण काम्पिल्यपुरे पुरोत्तमे / जज्ञे समृद्धयाढयवणिक्तनूभवो वसन्तदेवोऽभिधयाऽत्र विश्रुतः // 21 // वणिक्सुतः सुधनः तदारव्यः क्रमेण कालक्रमेण मृत्यु सम्प्राप्य पुरेषु उत्तमे काम्पिल्यपुरे तदाख्यनगरे अत्र भरते समृद्ध्या आढयस्य प्रचुरधनवतो वणिजः तनूभवः पुत्रः अभिधया नाम्ना वसन्तदेवः विश्रुतः प्रसिद्धः जज्ञे जातः // 21 // अथ धनदपुनर्भवमाह संजातेति-- संजातमृत्युधनदो निजायुषः क्षये क्रमेणाऽजनि कृत्तिकापुरे / श्रीकामपालः प्रतिपन्नपालनै-कतानचित्तः प्रथितोऽभिधानतः // 22 // धनदः तदाख्यः क्रमेण निजायुषः क्षये संजातमृत्युः मृतः सन् कृत्तिकापुरे अभिधानतः नाम्ना श्रीकामपालः प्रथितः ख्यातः प्रतिपन्नानां शरणागतानां प्रतिपन्नायास्स्वीकृतायाः प्रतिज्ञायाः पालने एकतानं तत्परं चितं यस्य स तादृशो अजनि जातः // 22 // प्रथाविशिष्टयोद्धयोः पुनर्भवमाह मायेति-- मायावशात् तावपि वाणिजौ मृतौ पतीशसंज्ञौ धनपूर्वको क्रमाद् / पुत्र्यावभूतां वणिजोर्यथाक्रमं मदोद्धतैका मदिराऽथ केशरा // 23 // तौ द्वौ धनपूर्वको पतीशसंज्ञौ धनपतिधनेश्वरनामानौ वाणिजावपि मायावशात्कपटस्वभावत्वाद्धेतोः क्रमतः मृतौ सन्तौ यथाक्रम क्रमशः वणिजोः पुत्र्यावभूताम् , मदोद्धता उन्मत्ता एका प्रथमा धनपतिजीवः मदिरा तन्नाम्नी, अथ परा धनेश्वरजीवः केशरा तदाख्या मदोद्धता जातेतिशेषः // 23 // अथ तयोः नगरायाह आयेति-- आधाऽभवच्छङ्खपुरे महोत्तमे परा जयन्त्यां पुरि ते कमेण च / चत्वार एतेऽपि विशीर्णशैशवा समासदन यौवनमङ्गदीपनम् // 24 // ते द्वे मदिराकेशरे क्रमेण च आद्या मदिरा महोत्तमे शङ्खपुरेऽभवत् परा केशरा च जयन्त्यां पुरि जयन्तीनगयीं अभवत् / एते त्वदतिरिक्ताश्चत्वारोऽपि विशीर्णशैशवाः व्यतीतबाल्यकालाः सन्तः अङ्गदीपनम् अङ्गशोभाजनकं यौवनं युवावस्थां समासदन्नाश्रितवन्तः // 24 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy