________________ 266 श्रीशान्तिनाथमहाकाव्यम्-अष्टादशः सर्गः / ते सुधनादयः क्रमतः रत्नान्तरीपं रत्नद्वीपमधिगम्य प्राप्य सतामुत्तमानां निषेव्यं करणीय व्यवहारं वणिक्कर्म आश्रयन् आश्रितवन्तः / तत्र रत्नद्वीपे मनीषितं यथेष्टं द्रविणमर्जयित्वा ते सुधनादयः पुनः निजं नगरं श्रीपुरं समागमन् आगन्तवन्तः // 16 // अय तेषां सुखप्राप्तिमाह- पञ्चेति-- पञ्चाऽप्यनन्दन् सुकृतेन तेन ते सुपात्रदानप्रतिपत्तिजन्मनां / कि केवलज्ञानमवाप्तमादितो महोदय-ऽऽनन्दपदं ददाति न ? // 17 // ते पञ्चापि सुधनादयो द्रोणश्च तेन पूर्वकृतेन सुपात्रदानप्रतिपत्तिजन्मना सुपात्रदानजातेन सुकृतेन पुण्येन आनन्द प्राप्तवन्तः, ननु दानस्य सद्य एव कुतः फलमिति चेत्तत्र दृष्टान्तमाह- केवलज्ञानमवाप्तं प्राप्तं सदादितः आदौ अन्तमुहूर्त एव महतः उदयस्य आनन्दस्य च पद' सिद्धशिलारूपं किं न ददाति अपि तु ददात्येव, तस्य तत्स्वभाव्यादित्यर्थः / तथा दानमप्युत्कृष्टं चेत्सद्य एव फलतीति भावः // 17 // अथ तेषु पञ्चसु प्रत्येकं मनोवृत्तिवैषम्यमाह- मायाविनाविति___ मायाविनौ किञ्चिदुभौ वणिक्सुतौ, द्वितीयतुविपरौ त्वमायिनौ / स द्रोणकस्तेषु विशुद्धभावनाविभावितात्मा परमस्ति शस्तधीः ? उभौ द्वौ द्वितीयतुर्यो धनपतिधनेश्वरौ वणिक्सुतौ किञ्चिन्मायाविनौ सकपटौ, अपरौ प्रथमतृतीयौ सुधनधनदौ तु अमायिनौ निष्कपटौ, सरलावित्यर्थः / परं तथा तेषु पञ्चसु स भारवाहकः द्रोणकः द्रोणः विशुद्धया भावनया विभावित आत्मा यस्य स तादृशः शुद्धाशयः शस्तधीः विमलबुद्धिरस्ति // 18 // अथ तेषां पुनर्भवाद्याह-- द्रोणो विपद्य प्रथमं स तेष्व भू-नृपाङ्गजस्त्वं / नृप ! हस्तिनापुरे / त्रैलोक्यलोकाशयविस्मयावहं सुपात्रदानस्य विजृम्भितं न किम् ? // 19 // नृप ! तेषु पञ्चसु प्रथममादौ स द्रोणः भारवाहकः विपद्य मृत्वा हस्तिनापुरे नृपाङ्गजः वं कुरुचन्द्रोऽभः एतच्च सुपात्रदानस्यैव फलमित्याह सुपात्रदानस्य विजृम्भितं परिणामप्रकर्षः त्रैलोक्यस्य लोकत्रयस्य लोकानामाशयानां विस्मयावहमाश्चर्यजनकं न भवतीतिशेषः अपि तु भवत्येवेत्यर्थः // 19 // अथ कुरुचन्द्राभिधाने हेतुमाह गर्भेति गर्भावतीर्णे त्वयि चाऽऽम्बया मुखे विशन् विधुः स्वप्न उदैक्षि यत्परम् / तेनैव वप्ता तव नाम निर्ममे महे मद्धे कुरुचन्द्र इत्यपि // 20 //