________________ आ. श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 265 तदा वने प्राप्ते शम्बले क्षीणप्राये च सति, ते चत्वारः प्रतिमासमाश्रितं कायोत्सर्गेध्यानस्थं लोकनतं जनप्रणतम् अन्योन्यविरोधिनाम् परस्परविषयाग्राहित्वेन विरुद्धानाम् / पञ्चेन्द्रियाणाम् त्वगादीनाम् रहः विजनेऽनुशासनं निग्रहम् विधातुं कर्तुमिन्द्रियनिग्रहतत्परं स्थित कञ्चित्तपोधनं मुनिम् व्यलोकयन् दृष्टवन्तः // 12 // अथ तेषां दानभावनामाह- अस्मै इति अस्मै मुनीन्द्राय शमैकमूर्तये प्रदाय किश्चित् सफलं विदध्महे / जन्म स्वकं चेति विचिन्त्य ते क्षणं हितं जगुर्दोणमिदं सचेतसः // 13 // शमस्य एकमूर्तये शमस्वरूपायास्मैं दृष्टाय मुनीन्द्राय किञ्चित्प्रदाय स्वकं जन्म सफल कृतकृत्यं विदध्महे कुर्मः, तदेव जन्मफलं यत्सुपात्रे दानमिति भावः / इति च क्षणं विचिन्त्य सचेतसः सुमनसस्ते चत्वारः द्रोणं भारवाहकपुरुषमिदं वक्ष्यमाणं हितं हितवचनं जगुः // 23 // तद्वचनमेवाह- द्रोणेति द्रोण ! त्वमस्मै परमर्षयेऽधुनाऽविशिष्टपाथेयविभागतो मनाक् / देहीति तैर्व्याहृत एष तोषवानमंस्ततद्वाक्यमुदारमानसः // 14 // द्रोण ! त्वम् अस्मै दृष्टिगोचराय परमर्षये अधुना अवशिष्टस्य पाथेयस्य विभागतोऽशतः पाथेयस्य यदवशिष्टं तत एव मनागल्पमपि देही इतीत्थं तैश्चतुर्भिाहृतः आज्ञप्तः उदारमामसः दानैकचित्तवृत्तिः एष द्रोणः तोषवान् प्रीतः सन् तदानविषयकं वाक्यममस्त स्वीकृतवान् // 14 // * अथ तस्य मुनये दानमाह-तेभ्य इति तेभ्यश्चतुभ्योऽप्यधिकां स भावनां वहन् मुनिं तं पतिलाभ्य तत्क्षणम् / कर्माऽर्जयामास भवान्तरांहसां क्षये महाभोगफलं निरर्गलम् // 15 // स द्रोणः तेभ्यः सुधनादिभ्योऽपि / चतुर्योऽधिकं भावनां विशुद्धमनोवृत्तिं वहन् धारयन् तत्क्षणमेव तं मुनि प्रतिलाभ्य प्रदाय भवान्तराणामंहसां दुष्कृतानां क्षये नाशे सति निरर्गलमप्रतिहतम् महाभोगफलं च शुभफलकारकं कर्म अर्जयामास // 15 // मथ तेषां धनार्जनपूर्वकं स्वपुरागमनमाह-रत्नेति रत्नान्तरीपं क्रमतोऽधिगम्य ते सतां निषेव्यं व्यवहारमाश्रयन् / तत्राऽर्जयित्वा द्रविणं मनीषितं पुनर्निजं ये नगरं समागमन् // 16 //