________________ श्रीशान्तिनाथमहाकाव्यम् अष्टादशः सर्गः अस्मिन् प्रस्तुते पुटभेदनोत्तभे नगरश्रेष्ठे श्रीपुरे वणिक्कुलोद्भवानि चत्वारि चतुःसंख्यानि मित्राण्यवात्सुः वसन्ति स्म तानि च, परस्परम् साम्यातिगायाः अनुपमायाः प्रीतेः पदम्, आसन्नितिशेषः तेषां मित्राणामभिधाः नामानि क्रमेण इमा वक्ष्यमाणाः स्मृताः // 7 // तन्नामान्येवाह आद्य इति आयोऽनवद्यः सुधन महाधनः पतिद्वितीयो धनपूर्वकः स्मृतः। ततस्तृतीयो धनदो महाशयो यथार्थनामा चरमो धनेश्वरः // 8 // आद्यः प्रथमः अनवद्यः प्रशस्यः महाधनः धनाढ्यः सुधनः तदाख्यः। द्वितीयः धनपूर्वकः पतिः धनपतिरित्याख्यः स्मृतः, ततस्तृतीयः महाशयः धनदः तदभिधानः आसोदितिशेषः चरमोऽन्तिमश्च तयः यथार्थनामा अर्थानुगुणनामा धनेश्वरः स्मृतः // 8 // अथ तेषां धनार्जनाय परदेशगमनं युग्मेनाह सिध्यन्तीति सिध्यन्ति पुंसां न मनोमनोरथाः कदाचन द्रव्यमपास्य पुष्कलम् / / संसारसर्वस्वसुखाभिलाषिणा-मिति स्वचित्ते परिभाव्य ते मिथः // 9 // द्रोणाभिधानं पुरुषं महाबलं समुद्यतं शम्बलभारवाहने / कृत्वा वसूपाजेनहेतवेऽचलन् समे मणिद्वीपदिदृक्षयाऽन्यदा // 10 // संसारे सर्वस्वम् सारभृतं सुखमभिलषन्तीति तेषां संसारसर्वस्वसुखाभिलाषिणां पुंसाम् पुष्कलम् प्रचुरं द्रव्यं धनमपास्य ऋते कदाचन मनोमनोरथाः स्वमनोरथाः न सिध्यन्ति, इतीत्थं मिथः परस्परम् स्वचित्ते परिभाव्य विचार्य ते समे सर्वे चत्वारः, अन्यदा एकदा द्रोणाभिधानं पुरुषं महाबलं भारवहनसमर्थमित्यर्थः शम्बलस्य पाथेयस्य भारवहने समुद्यतं कृत्वा द्रोणं भारवहने नियुज्येत्यर्थः वसूपार्जनहेतवे धनार्जनाय मणिद्वीपस्य दिदृक्षया अचलन् प्रस्थिताः // 9 // 10 // भथ तेषां शम्बलाल्पतामाह उत्तेरुरिति-- उत्तरेको गहनां महाटवीं दिनैरनेकैः पथि तेऽधिसंकथाः प्रक्षीणकल्पं च बभूव शम्बलं प्रभूतमानीतमपि व्यये सति // 11 // ते चत्वारः पथि मार्गे अधिसंकथाः कथालापप्रवृत्तयः सन्तः अनेकैः दिनैः कृत्वा एका गहनां महाटवीमरण्यमुत्तेरुः प्राप्ताः उत्तरन्ति स्म इति यावत्, शम्बलं पाथेयं च प्रभूतमानीनतपि व्यये सति भुक्ते सति प्रक्षीणकल्पं प्रातर्भोजनमपि यत्र नास्ति तादृशं बभूव // 11 // मथ तत्र मुनिदर्शनमाह-कञ्चिदिति कश्चित् तदा ते प्रतिमासमाश्रितं व्यलोकयल्लोकनतं तपोधनम् / पञ्चेन्द्रियाणामनुशासनं रहो विधातुमन्योऽन्यविरोधिनां स्थितम् // 12 //