________________ 263 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विशुद्धसंवेदन ? अतिनिर्मलज्ञान ? प्रभो ? स्वामिन् ? केन कर्मणा ईदृशं वर्तमानं विशालं रप्राज्यं राज्यमवापम् आप्तवान् , अहमिति शेषः तथा उपायने मम लोककृतोपहारे पञ्चभ्योऽति रिक्तमन्यद् वरत्वश्वफलांशुकादिकम् कदापि न समेति ममोपायने पञ्चसंख्यकमेव वस्त्वायाति न तु ततोऽधिकमिति केन कर्मणा तथा जायते इति वदेत्यर्थः // 3 // प्रश्नान्तरमाह तदिति तदित्सुरेवेष्टजनाय सर्वदा स्वयं न भुजे स्पृहयालुरप्यहम् / त्वस्मै प्रयच्छामि न चाऽपि जातुचिद् बुभुत्सुरत्राऽस्मि जिनेन्द्र ! कारणम् // 4 // जिनेन्द्र ! तदुपायनागतं वस्तु इष्टाय प्रियायाभिमताय वा जनाय सर्वदा दित्सुतुमिच्छुरेव, भवामीतिशेषः स्वयमग्राहयत्वमाह अहं कुरुचन्द्रः स्वयं स्पृहयालुरपि उपभोक्तुमिच्छन्नपि न भुञ्ज, प्रयच्छामि ददामि न जातुचित्कदापि, अत्र स्वयमनुपभोगेऽन्यस्मै दानाभावे च कारणं बुभुत्सुर्जिज्ञासुरस्मि // 4 // अथ तीर्थङ्करकृतोत्तरमाह शान्तीति-- शान्तिप्रभुः प्रत्यवदद् महाद्भुतं सुपात्रदानप्रतिपत्तितः स्वयम् / यत् पञ्चभिः पञ्चजनैः समर्जितं निशम्यतां तत् सुकृतं धरापते ? // 5 // शान्तिप्रभुः प्रत्यवदत् प्रत्युत्तरं ददौ, तदेवाह धरापते ? राजन् सुपात्रदान प्रतिपत्तितः सुपात्रदानत इत्यर्थः स्वयमात्मना पञ्चभिः पञ्चसंख्यकैः पञ्चजनैः पुरुषैः 'स्युः पुमांसः पञ्चजनाः पूरुषाः पुरुषा नरा" इत्यमरः / सहेति शेषः, यन्महाद्भुतं सुकृतं समर्जितमुपार्जितं तन्निशम्यताम् // 5 // तदेवाह अत्रेति अत्राऽस्ति याम्ये भरतेऽमरावती-पुरी समं कोशलदेशभूषणम् / क्षीराब्धिपुत्र्याः परमं निकेतनं महापुरं श्रीपुरसंज्ञया श्रुतम् // 6 // अत्रास्मिन् याम्ये दक्षिणे भरते अमरावती पुरी सममिन्द्रनगरीतुल्यं कोशलदेशस्य भूषणमिव भूषणम्, क्षीराब्धेः पुत्र्याः लक्ष्म्याः परमं सर्वाधिकम् निकेतनं स्थानम्, लक्ष्मीसमृद्धमित्यर्थः श्रीपुरसंज्ञया श्रुतं महापुरमस्ति // 6 // अथ तत्र वणिनिवासमाह चत्वारीति चत्वारि मित्राणि वणिक्कुलोद्भवा-न्यवात्सुरस्मिन् पुटभेदनोत्तमे / साम्यातिगप्रीतिपदं परस्परं क्रमेण तेषामभिधा इमाः स्मृताः // 7 //