________________ अहम् अथ अष्टादशः सर्गः अथ सर्गादौ टीकाकारमांगलिकस्तुतिमाह व्याख्यातो नो कदाचित् कृतिभिरयमहो स्पष्टमष्टादशाख्यो, पोद्दामेहमवृत्ते हृदयरुचिकृते वर्णने लब्धजन्मा। सव्याख्यं सश्चितोऽसौ प्रथयतु भुवने दर्शनाख्येन शश्वत् सूरीशा सज्जनानां मुदमतुलमरं वर्धयन् स्पर्धयेव // सर्गादौ चरितनायकंध्येयतया स्तौति जानन्तीति जानन्ति यं ध्यानसमाधिमास्थिताः पराहतान्तःकरणप्रवृत्तयः विध्वस्तदुष्कर्मचया यतीश्वराः स शांतिनाथस्तनुतां शुभानि वः // 1 // ध्यानसमाधि ध्यानैकतामतामास्थिताः शुभध्यानमग्ना इत्यर्थः पराहताः प्रत्याहताः विषयेभ्यो निवर्त्तिता अन्तःकरणप्रवृत्तयो यैस्ते तादृशाः ध्यानप्रभावात् स्थिरवृत्तय इत्यर्थः अतः एव विध्वस्तदुष्कर्मचयाः विनष्टाशुभकर्मनिचयाः घातिकर्ममलशून्या यतीश्वरा यं जानन्ति ज्ञानविषयं कुर्वन्ति, बिशुद्धज्ञानोपयोगेन पश्यन्ति, स योगिजनध्येयः शान्तिनाथः वः श्रोतृपाठकानां शुभानि तनुताम् चिन्तामणिन्यायेन ध्यानादिना करोतु अत्र सर्गे प्रायो द्वादशाक्षरोपजाति-श्छन्दः // 1 // अथ पूर्वसर्गपरिशिष्टमूलां कयां प्रस्तौति श्रुत्वेति श्रुत्वा त्रिलोकीगुरुदेशनां मुदा ऽऽलुप्तः सुधाकुण्ड इवाऽखिलैः समम् / नत्वाऽथ नाथं कुरुचन्द्रभूपति-~जिज्ञपच्छान्तिजिनं शुभाकरम् // 2 // अखिलैः स्वपरिजनादिभिरुपस्थितैरन्यैश्च समं सह त्रिलोकीगुरोः षोडशत्तीर्थङ्करस्य देशनां श्रुत्वा अथानन्तरम् सुधाकुण्डे इव मुद्रा हर्षेण आलुप्तः आर्द्रमनाः कुरुचन्द्रभूपतिः नत्वा नाथं शुभाकरम् कल्याणकरं शान्तिजिनं व्यजिज्ञपत् प्रार्थयामास // 2 // तद्विज्ञप्तिमेवाह प्राज्यमिति-- प्राज्य प्रभो / राज्यमबापमीदृशं विशुद्धसंवेदन ? केन कर्मणा ? पञ्चातिरिक्तं न समेत्युपायने कदापि वस्त्वयफलांशुकादिकम् // 3 // .