________________ 259 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ राक्षोऽभियानाद्याह-तच्छुत्वेतितच्छत्वा स च देशसीमनि ययौ सर्वाभिसारेण राद, सोऽप्यभ्यागमदग्रणीलबतां द्राक् चण्डसेनः सरुटू / लग्नं संख्यमसंख्यनग्ननुतयोरप्येककालं तयो भग्ने तेन बले नृपस्य सबलो राज्ञा विजिग्येऽथ सः // 212 // तत्सामन्तनिवेदितं श्रुत्वा स राट् नृपः श्रीपुरेशश्च सर्वाभिसारेण सर्वसैन्यादि सहैव नयन् इत्यर्थः / देशसीमनि स्वमण्डलप्रान्ते यन्त्र चण्डसेनोपद्रवस्तत्र देशे इत्यर्थः ययौ, स चण्डसेनोऽपि सरुट् सक्रोधः सन् बलवतामग्रणीः महाबलवान् सन् द्रागम्यागमत् युद्धाय सम्मुखमागतवान्, अथ असंख्यैः बहुभिः नग्नैः विरुदपाठकादिभिः नुतयोः स्तुतयोस्तयोः श्रीपुरेशचण्डसेनयोः एककालं प्रगपत् सत्यं युद्धम् लग्नम् प्रवृत्तम् तेन राज्ञा श्रीपुरेशेन नृपस्य चण्डसेनस्य बले सैन्ये भग्ने नाशिते सति सबलोऽवशिष्टसैन्यसहितः स च चण्डसेनः विजिग्ये पराजितः // 212 // अथ श्रीपुरेशकृतचण्डसेननिग्राहाद्याह-नष्ट इतिनष्टो नष्टपतिष्ठः कतिपयसुभटैः सार्धमेष प्रविष्टो गे दुर्गे विशिष्टः शकुनिरिव तरोः श्येनभीत्या कुलाये दुर्गे रुद्धा समन्तात् प्रबलबलतया चण्डसेनं च बद्ध्वा . व्यावृत्तो वीक्ष्य शून्यं स्वपुरमथ नरं कञ्चनाऽपृच्छदीशः // 213 // नष्टा प्रतिष्ठा बलादि महत्त्वं यस्य स तादृशः एष चण्डसेनः नष्टः पलायितः कतिपयसुभटैः सार्धं विशिष्टः वार्तिकाख्यादिलघुः कश्चित् शकुनिः पक्षी "शकुंतः पक्षी शकुनी"त्यमरः श्येनस्य स्वनामप्रसिद्धस्य पक्षिणो भीत्या तरोः कुलाये नीडे इव दुर्गे दुर्गमे दुर्गे कोट्टे प्रविष्टः स्वरक्षणार्थमिति भावः अथ. ईशः श्रीपुरेशः प्रबलबलतया प्रबलपराक्रमतया प्रबलसैन्यतया च समन्तात् सर्वतः दुर्ग रुद्ध्वा निरुद्धवीवधासारप्रसारादिरूपं कृत्वा चण्डसेनं च बद्ध्वा निगृह्य व्यावृत्तः परावृत्तः सन् स्वपुरं श्रीपुरं शून्यम् विजनं वीक्ष्य कञ्चन नरमपृच्छत् // 21 // अथ पुरुषकृतप्रतिवचनाद्याह-स इति-- स पोचे नृपते ! कुतोऽपि समभूद् भीः किंवदन्तीदृशी यच्चण्डः स च चण्डसेनचरटः क्षमापं पराजेष्यते / तल्लोकाः प्रपलायनं कुरुत भोः आकर्ण्य चैतज्जनाः सर्वे नेशुरतो बभूव नगरं शून्यं समग्रं तव // 214 //