________________ 258 www श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः एतदुक्तप्रकारम् माधवस्य भाषितं वचनं श्रुतिगतं कृत्वा श्रुत्वेत्यर्थः, राज्ञः द्वाःस्थपदं दधभिः द्वारपालैरित्यर्थः सुराष्ट्ररूपमहाराष्ट्रोद्भवैः सुराष्ट्रामहाराष्ट्रीयैः निजदेशस्य निन्दनतया विगोपनया कृत्वा कोपेन प्रकम्पाः स्फुरन्तोऽधरा अधरोष्ठा येषां तैः तादृशैरतिकुपितैः सद्भिः अभितः पार्श्वद्वयतः यष्ट्यादिभिस्ताडितः स माधवः कथञ्चिदनुनयप्रार्थनादिनैव पित्रा माधवपित्रा अमोचि, रुधिराणां ताडनजन्यरक्तानामाकृष्ट्याऽपाकरणेन, चिकित्सादिनेति भावः सज्जीकृतः स्वस्थः कृतश्च // 209 // अथ कथामुपसंहरन्नाह-एवमिति एवं देशकथाऽप्यनर्थजननी संत्यज्यतां दूरतः, ____ क्षोणीजम्भरिपो ! श्मशानकलसीवाऽऽतङ्कसम्पादिनी / सर्वस्याऽपि सुखाय संभवति यत् श्लाघा प्रसन्नेदुवद् दुःखस्याऽभ्युदयं तनोति विहिता निन्दा च हास्यादपि // 210 // क्षोणीजम्भरिपो ? महीन्द्र ! एवमुक्तप्रकारेण अनर्थजननी अनिष्टकारिणी श्मशानस्य यमसदनस्य कलसीव आतङ्कसम्पादिनी भयजनिका देशकथापि अपिना पूर्वोक्तवनिताकथादिसंग्रहः / दूरतः एव सन्त्यज्यताम् न क्रियतामेव कदापीत्यर्थः सामान्योपन्यासेन तत्समर्थयन्नाह यद्यतः श्लाघा चाटूक्तिः प्रसन्नेन्दुवन्निर्मलचन्द्रवत् सर्वस्यापि सुखाय मनःप्रीतये सम्भवति, निन्दा च हास्यादपि परिहासमाश्रित्यापि, किम्पुनर्पथार्पिताः विहिता कृता सती दुःखस्य अभ्युदयं तनोति दुःखमेवोत्पादयतीत्यर्थः // 210 // अथ राजकथाजन्यानर्थदृष्टान्तं विवर्णयिषुः प्रस्तौति-क्ष्मापमितिक्ष्मापं व्यज्ञपयत् कदाचन सुधीश्रीसिंहदत्ताभिधः, सामन्तस्तव देव ? देशमपभीविट्चण्डसेनो बली / . हा ! विश्रंसयति प्रचण्डबलयुग दुर्गप्रविष्टः स चा ऽस्माकं दुर्ग्रह इत्यवेत्य भवता युक्तं समाचर्यताम् // 211 // कदाचन सुधीः श्रीसिंहदत्ताभिधः सामन्तः मापं श्रीपुरेशं व्यज्ञपयत् न्यवेदयत्, किमित्याह देव! हा ! इति खेदे, प्रचण्डबलयुक् विशालपराक्रमशालिसैन्यसमन्वितः अत एव अपभीः बली बलवान् विट्नृपः चण्डसेनः तदारव्यः तव श्रीपुरेशस्य देशं मण्डलं विख्सयति ध्वंसयति, ननु स तर्हि युष्माभिनिगृह्यतामिति चेत्तत्राह स चण्डसेनश्च दुर्गप्रविष्टः दुर्गसंश्रितः अत एव, अस्माकं सामन्तानां दुर्ग्रहः दुःसाध्यः, अनिर्माह्य इत्यर्थः दुर्गसंश्रितो हि स रक्षितत्वाद् दुःसाध्यो भवतीति भावः इत्यस्माभिस्तदुःसाध्यत्वमवेत्य ज्ञात्वा भवता श्रीपुरेशेन युक्तमवसरोचितम् समाचर्यताम् विधीयताम, इटशेऽवसरे यद्युक्तं प्रतिभाति, भवता तद्विधीयतामित्यर्थः // 211 //