________________ 257 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ननु तर्हि निन्धः को देश इत्याकांक्षायामाह-नृप इति-- नृपो भुङ्क्त तीर्थद्रविणमपि तद्यात्रिकजनैः, प्रदत्तं स्वश्रद्धाभरविवशचित्तैः सुकृतिभिः। स्वयं यस्मॅिल्लोकद्वयभयमजानन्नविरतं, सुराष्ट्राख्यो राष्ट्रः स पुनरिह निन्धो मतिमताम् // 207 // इह अत्र लोके स प्रसिद्धः सुराष्ट्राख्यराष्ट्र: जनपदः मतिमतां निन्द्यः, तत्र हेतुगर्भ विशेषणमाह यस्मिन् सुराष्ट्रदेशे नृपः सुकृतिभिः पुण्यशालिभिः स्वस्य यः श्रद्धाभरः तीर्थदानरुच्यतिशयः तेन कृत्वा विवशचित्तैः तदधीनचित्तैः श्रद्धालुभिरित्यर्थः यात्रिकजनैः तीर्थयात्राऽऽगतजनैः प्रदत्तं तीर्थभक्याऽर्पितं तीर्थद्रविणमपि तीर्थद्रव्यमपि, अन्यद्रव्यस्य तु कथैव केति भावः लोकद्वयस्येहलोकस्य परलोकस्य भयम्, इह लोके तीर्थद्रव्यग्रहणानिन्दा परत्र च शास्त्रनिषिद्धपरिग्रहान्नरकादि, तद्वयं भयमजानन् जानन्नप्यगणयन्नविरतं स तमेव स्वयं भुङ्क्ते व्यवहरति, एवञ्च यन्नृपो निषिद्धाचारपरायणः स देशो निन्द्य एवेत्यर्थः // 207 // सुराष्ट्रनिन्दने हेत्वन्तरमाह श्रीमदिति श्रीमधुगादिजिननेमिजिनाधिनाथ- . __ श्रीसोमनाथमुखतीर्थपरम्परायाम् / सत्यं जनाः सुकृतमादधते न यत्र यात्रागतानपि तुदन्ति च चौर्यवृत्त्या // 208 // यत्र सुराष्ट्रदेशे श्रीमतां युगादिजिनस्य वृषभप्रभोः नेमेस्तदाख्यस्य जिनाधिनाथस्य श्रीसोमनाथमुखस्य श्रीसोमनाथप्रभृतिदेवस्य तीर्थानां भवतरणसाधनानां तत्तद्देवाधिष्टितपुण्यक्षेत्राणां श्रीशत्रुञ्जयगिरिनारप्रभासपत्तनादीनां परम्परायां श्रेण्यां सत्यमपि जनाः सुकृतं पुण्यकर्म नादधते कुर्वन्ति प्रत्युत तीर्थयात्राया तीर्थयात्रोद्देशेन आगतानपि च यात्रिकान् चौर्यवृत्त्या वस्त्राभरणाद्यपहरणेन कृत्वा तुदन्ति पीडयन्ति, एवञ्च तादृशदुराचारिजनपूर्णो देशो निन्दनीय एवेति भावः // 208 // मथ तेन माधवनिग्रहमाह-पतदितिएतद् माधवभाषितं श्रुतिगतं कृत्वा सुराष्ट्रामहा राष्ट्रीयैनिजदेशनिन्दनतया कोपप्रकम्पाधरैः / राज्ञोः द्वाःस्थपदं दधद्भिरभितो यष्ट्यादिभिस्ताडितः, पित्राऽमोचि कथञ्चिदेव रुधिराकृष्टया स सज्जीकृतः // 209 // . 33