SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ 256 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः अथ तत्राऽऽरामान वर्णति-योति यत्राऽऽरामा विविधविटपिश्रेणिभिः सर्वकालं, ____ विभ्राजन्ते विविधविटपिश्रेणयश्चापि पुष्पैः। पुष्पाण्यद्धा भ्रमरनिकरैरापतद्भिः समन्ताद, प्रकारौधैर्धमरनिकरः श्रोत्रपेयाभिरामैः // 205 // यत्र मगधदेशे आरामाः उपवनानि "आरामः स्यादुपवनमि" त्यमरः विविधानां नानाप्रकाराणां विटपिनां वृक्षाणां श्रेणिभिः सर्वकालं सर्वदैव विभ्राजन्ते शोभन्ते, विविधानां विटपिनां श्रेणयश्चापि पुष्पैः कृत्वा, विभ्राजन्ते, अद्धा पुनः निश्चयेन पुष्पाणि समन्तात् सर्वतः आपतद्भिः सुरभिमकरन्दलोभात्स्वयमागच्छद्भिः भ्रमरनिकरैः भ्रमरसमूहैः, विभ्राजन्ते भ्रमरनिकराश्च श्रोत्रपेयैः सादरं सप्रीति च श्रोत्रप्रायैः, श्रोत्रदसुखजनकैरिति यावत् अत एव अभिरामैः मनोज्ञैः झङ्कारौघैः मत्तगुञ्जनौधैः विभ्राजन्ते, अत्र पूर्व पूर्व प्रति परस्य विशेषणत्वेनोपन्यासादेकावल्यलङ्कारः, “यदुक्तम् पूर्व पूर्व प्रति विशेषणत्वेन परम् स्थाप्यतेऽपोहयते वा चेत्स्यात्तदैकावली मते"ति // 205 // - अथ तत्र दुर्भिक्षाऽभावं वर्णयति-नानेति... नानाप्रकारकलमैरुपजायमानै १विदुप्तिविरहेऽपि महेशयोग्यैः / ... दुर्भिक्षनाम जनताभिरधीयते न दुःस्वमवत् प्रमदपीवरचारुचित्तैः // 206 // . यत्र मगधदेशे, उतिविरहेऽपि बीजवपनाद्यकरणेऽपि, अयत्नमेवेति यावत्, एतेन मगधभूमेरयत्नफलद्रूपतोक्ता, दूर्वावत् तृणविशेष्यवदुपजायमानैः उत्पंधमानैः महेशयोग्यैः धनाढ्योचितैः नानाप्रकारैः कलमैः ब्रीहिविशेषैः कृत्वा प्रमदेव प्रहर्षेण पीवराणि उदाराणि, दुःखासम्पृक्तानीति यावत् अत एव चारूणि सद्वृतीनि चित्तानि येषां तैस्तादृशैः जनताभिः जनसमूहैः दुर्भिक्षस्य नामापि, किमुत अर्थरूपं तद्वस्तु, इति भावः, दुःस्वप्नवत्, यथा दुःस्वप्नं न वदन्ति तथेत्यर्थः अनुक्ते स्वप्नफलाभाव इति नैमितिकोक्तेरिति भावः न अघीयते उच्यते सर्वदा तत्र सुभिक्षमेव भवतीति भावः अत्र जनताभिरित्यस्य विशेष्यस्यानुरोधेन प्रमदापीवरचारुचित्ताभिरित्येवं विशेषणस्यापि स्त्रीत्वमेव न्याय्यम्, एवश्च प्रमदपीवरचारुचित्तैरिति प्रामादिकः प्रयोग इत्यवधेयम् // 206 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy