________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् - तस्यैव वर्णनीयत्वे तद्वशिष्टमाह-महिष्य इति महिष्य इव भूपानां पुण्डरीकाणि विभ्रति / यत्र वाप्यः प्रभूतानि समर्था जीवनांइतौ // 202 // यत्र मगधदेशे वाप्यः दीर्घिकाः “वापी तु दीर्घिका" इत्यमरः जीवनांहतो जलदाने समर्थाः “पयः कीलालममृतं जीवनमिति' 'त्यागाचंहति पर्यन्तन्त्रयोदश दानस्य" इसिचामरः सदा जलपूर्णा इत्यर्थः भूपानां महिभ्यः पट्टराश्यः इव, प्रभूतानि पुण्डरीकाणि सिताम्भोजानि पुण्डरीकं सिताम्भोजमि"त्यमरः बिभ्रति, नत्वन्यो देशस्तथेति स एव वर्णनीयः इत्यर्थः / 202 // मथ तत्र यसरांसि वर्णपति-अस्मिन्नीतिअस्मिन् सरांसि कमलोपचितानि कामं, भूमीभुजामिव महाभवनानि सन्ति। तृष्णां निहन्तुमुदयः स बभूव येषां, क्षीराणि येषु बहवोऽपि जनाः पिबन्ति // 203 // अस्मिन् मगधदेशे सरांसि भूमीभुजां राज्ञां महाभवनानि इव काममत्यर्थ कमलैः परैः कमलेन जलेन च “कमल जल''मित्यमरः पक्षान्तरे कमलाभिश्च उपचितानि समृद्धानि, सन्तीति शेषः तथा येषां सरसां स तादृश उदयः विपुलता उत्तालता वा बभूव, येषु तृष्णां निहन्तुं पिपासामपनोदितुम् बहवोऽपि जनाः क्षीराणि नीराणि "नीरक्षीराम्बुशम्बरमि" त्यमरः पिबन्ति // 203 // मथ तत्रत्य प्रपा वर्णयति- यत्रेति यत्र प्रपाः प्रतिपथं सुकृतोपलम्भ ___संरम्भसम्भृतजनैविहिता विभान्ति / यासां रसेन सुहिताः परितापजात मन्तःस्थितं निधनितां पथिका नयन्ति // 204 / . यत्र मगधदेशे प्रतिपथं मार्गे मार्गे सुकृतस्य पुण्यस्योपलम्भार्थ यः संरम्भः सादरारम्भः तत्र संभृतैः व्यापृतैः जनैः पुण्योपार्जनतत्परैः जनैः विहितारः प्रवर्तिताः प्रपाः पानीयशालाः विभान्ति, यासां प्रपाणां रसेन जलेन सुहिताः पानादिना तृप्ताः पथिकाः अन्तःस्थितं परितापजातं पिपासादिरूपं दुःखं तापं च निधनितां नाशं नयन्ति प्रापयन्ति // 20 //