________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः अथ श्रेष्ठिकृतापराधारोपमाह-अभाषिष्टेति : अभाषिष्ट ततः श्रेष्ठी रुष्टस्तं प्रति दुष्ट रे। निहुवानोऽभ्युपेतं स्वं दोपकारी त्वमेव मे // 197 // ततः माधवप्रतिवचनानन्तरम्, रुष्टः क्रुद्धः श्रेष्ठी माणिक्यश्रेष्ठी तं माधवं प्रत्यभाषिष्ट, किमित्याह रे दुष्ट स्वं स्वयमभ्युपेतं स्वीकृतम् वा निढुवानोऽपलपन् त्वम् माधव एव मे मम दोषकारी पौंडोत्पादकः, स्वकृतस्यापि स्वयमस्वीकारे दोषो निश्चीयते इति भावः // 197 // तत्ताडनमाह-तदिति तद्भूत्यैः पीडथमानोऽसौ श्रेष्ठिनोऽस्य निदेशतः / कथञ्चिद् बीजिनाऽमोचि लगित्वा पाणिपादयोः // 198 // अस्य श्रेष्ठिनः माणिक्यश्रेष्ठिनः निदेशतः तस्य माणिक्यश्रेष्ठिनः मृत्यैः पौड्यमानस्ताड्यमानोऽसौ माधवः बोजिना माधवपित्रा पाणिपादयोः लगित्वा श्रेष्ठिपादावुपसंगृहय, दोषक्षमापनार्थमिति भावः कथञ्चिन्महता प्रयत्नेनामोचि दण्डमुक्तः कृतः // 198 // मयोपसहरति-पदमिति / एवं भक्तकथाऽप्येषा प्रकृत्याऽनर्थकारणम् / विवेकिभिस्ततो वा मलिनस्त्रीवदन्वहम् // 199 // एवमुक्तनिदर्शनेन हेतुना एषा भक्तकथा भोज्यवार्ताऽपि प्रकृत्या . स्वभावत एवं अनर्थकारणम्, माधववदिति भावः ततस्तस्मादनर्थकारणत्वाद्धेतोः विवेकिभिः धीमद्भिः मलिनस्त्रीवत्, अन्वहं सदैव वर्ध्या त्याच्या // 199 // मथ देशकथां दूषयितुं प्रस्तौति -अन्येद्युरिति : अन्येधुः सोऽपि वाचालचालयन् रसनां निजाम्। पारेभे माधवो देशकथामेव जनान्तिके // 20 // अन्येयुः सोऽपि स एव पुरा निदर्शिति एव वाचालः कुत्सितबहुभाषी माधवः निजां रसना जिह्वां चालयन् व्यापारयन्, कुत्सितं बहु वदन, जनान्तिके पारसमक्षं देशकथामेव प्रारेमे // 20 // मथ माधवकृतदेशकथामेवाह-देशेविति देशेषु मगधाभिख्यो देशो वर्णनमर्हति / एक एव ग्रहाधीशो ग्रहेष्विव मनीषिणाम् // 201 // देशेषु मगधाभिख्यः मगधनामा एक एव देशः वर्णनमर्हति वर्णनीयः, मनीषिणाम्, तत्र निदर्शनमाह ग्रहेषु बुधादिग्रहेषु ग्रहाधीशः सूर्य इव, नान्य इत्यर्थः // 201 // .