________________ आ. श्रीविजयवर्शनसूरीश्वरकृत-प्रबोनीयुतम् 253 'ततः पीडोत्पत्तेरनन्तरम् पीडाया अपनोदाय चिकित्सनायाऽऽहतैः भिषग्वरैः वैद्यश्रेष्ठैः स माणिक्यश्रेष्ठी ऊचे, किमित्याह येन पुरुषेण तद् भवद्भुक्तं भोज्यं पाचितम्, स च स एव पृच्छयताम्, कीदृशं पाचितमिति स प्रष्टव्यः पाकवैगुण्यमेवात्र हेतुरिति भावः // 192 // तत्पृच्छाप्रयोजनमाह-चिकीति चिकित्स्यते यथा तस्य निदानस्याऽनुमानतः / / - इत्याकर्ण्य वचस्तेषामिभ्यः स्वान् औषयद् नरान् // 193 // यथा येन प्रकारेण तस्य निदानस्य पीडाकारणस्यानुमानतः, भोज्ये जातवैगुण्याद्यनुमानतः चिकित्स्यते चिकित्सा क्रियते, नहि निदानं विना चिकित्सासंभव इति भावः इत्युक्तप्रकारं तेषां वैद्यानां वचनं आकर्ण्य इभ्यः माणिक्यश्रेष्ठी स्वान् स्वकीयान् नरान् भृत्यादीन् प्रेषयत् माधवाह्वानाय प्रेषिवानित्यर्थः // 193 // अथ माधवस्यागमनानिच्छामाह तदिति तज्ज्ञातुं तेऽपि गच्छन्तः प्रवृत्तिं तां च माधवम् / कुवेन्तमाहयत् सोऽपि तत्राऽऽगन्तुं न वाञ्छति // 194 // तद् भोज्यनिर्माणप्रकारं ज्ञातुं प्रष्टुं गच्छन्तः ते माणिक्यश्रेष्ठिपुरुषाः तां प्रवृत्ति भोज्यसम्पादनक्रियां कुर्वन्तं माधवमायन् च, स माधवोऽपि तत्र तेषां पार्वे आगन्तुं न वाञ्छतीच्छति, स्वकृतदोषभियेति भावः // 19 // .. “अथ तेषां बलातदानयनमाह-यष्टिभिरिति- ... ........ . यष्टिभिस्ताडयित्वा तैः स तत्पार्शमनीयत। तेनोचे रसवत्यां रे ! तम्यां किं क्षेपितं त्वया // 195 // तैः माणिक्यश्रेष्ठिपुरुषैः यष्टिभिस्ताडयित्वा, बलात्कारेणेत्यर्थः स माधवः तस्य माणिक्यश्रेष्ठिना ऊचे, किमित्याह रे इति भर्त्सनसम्बोधनम् त्वया माधवेन तम्यां रजन्याम् "रजनी यामिनी तमी'त्यमरः सरस्वत्यां पाके किं कीदृशं वस्तु क्षेपितम् निहितम् ! तद्वस्तु महद्वैगुण्यकरमिति तादृशवस्तु क्षेपतस्त्वं महानपराधीति भावः // 195 // तद्वैगुण्यमेवाह-तस्या इति तस्या भोजनमात्रेण ममाणे वेदनाऽस्ति यत् / प्राञ्जलीभूय सपोचेऽपाचयं न च किञ्चन // .196 // यद्यतः तस्यास्त्वत्कृतरसवत्याः भोजनमात्रेण मम माणिक्यश्रेष्ठिनः अङ्गे शरीरे वेदना पीड़ा अस्ति, स माधवः प्राञ्जलीभूयाञ्जलिं बध्वा, भयादिति भावः / प्रोचे, किमित्याह- किञ्चन वैगुण्यकरं न च नैवापाचयम् // 196 //