________________ 252 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / अथोपसंहरन् स्त्रीकथात्यागमाह-स्त्रीति-- स्वीकथामवबुद्धयैवमनर्थस्य निबन्धनम् / कुरुचन्द्र ! महीपाल ! कृपणोपास्तिवत् त्यजेः // 188 // महीपाल ! कुरुचन्द्र ! एवमुक्तप्रकारेण स्त्रीकथामनर्थस्य निबन्धनम् कारणमवबुद्धय ज्ञात्वा कृपणस्य उपास्तिवत् सेवावत्यजेः एष शुभः पंथा इति भावः // 188 // अथ भोज्यकथात्यागे हतान्तमाह-अधीति अधिगोष्ठि निविष्टोऽसावन्यदा भोज्यसंकथाम् / कुर्वन्नित्यवदद् हयोऽभूद् भोज्यं तस्य गृहे वरम् // 189 // अन्यदा असौ माधवः अधिगोष्ठि गोष्ठ्याम् निविष्ट उपविष्टः सन् भोज्यसंकथां कुर्वन्नीतीस्थमवदत् इतीति किमित्याह तस्य माधवस्य गृहे ह्यः गतदिने वर स्वादूत्तमं च भोज्यमभूत् // 189 // अथ मोदकादि वर्णयति-तटस्थ इति तटस्थ एव यत् तत्र भोज्याधं तदचीकरम् / किच यो मोदकस्तत्र तन्मूल्यं भुवनेऽपि न // 19 // यद्यतः तत्र महानसे तटस्थः समीपस्थ एव यद् भोज्याचं व्यञ्जनसूपादि सदचीकरम् कारितवान्, अहमिति शेषः अहमेव महानसे तटस्थः सन् भोज्यादि कारितवानिति तादृशमोग्यसंपादने मत्कौशल्ययोग इति स्वस्य गुणवत्त्वं प्रतिपादितमिति भावः स्वश्लाघार्थ मोदकमपि वर्णयति किश्च तत्र महानसे यो मोदकः कृत इति शेषः तस्य मोदकस्य मूल्यम् भुवने अखिलेऽपि जगति न नास्ति, अनुपमोऽसौ मोदक इत्यर्थः // 19 // अथ तभोजनतो वैगुण्यमाह-इतश्चेति इतश्च पौरमाणिक्यश्रेष्ठिनाऽत्र महामहे / अभूद् भुक्तं तदन्नादि तेन चैतन्य यातना // 191 // इतश्च पक्षान्तरे अत्र महामहे भोज्यसमारम्भरूपे उत्सवे तदन्नादि भक्तव्यञ्जनादि पोरण नागरेण माणिक्येन तदाख्येन श्रेष्ठिना भुक्तमभूत् तेन तदन्नादिभोजनेन च एतस्य माणिक्यश्रेष्ठिनः यातना तीव्रवेदना, अभूदिति शेषः, अन्नादेः विगुणतया उदरपीड़ा जातेत्यर्थः // 191 // मथ चिकित्सकादिविचारमाह-तत इति ततः पीड़ाऽपनोदाय समाहूतैभिषग्वरैः / स ऊचे पाचितं येन तद्भोज्यं स चे पृच्छयताम् // 192 // .