________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मंथ कुमारस्य तवलोकनमाह-कुमार इति कुमारोऽपि वदन्तं तं प्रेक्ष्य स्वप्रष्यया समम् / / दूरस्थः प्राविकल्पं तं सत्यमेवाऽभ्यमन्यत // 184 // कुमारः चन्द्रशेखरकुमारः अपि दूरस्थः दूरतः तं माधवं स्वस्य प्रेष्यया दास्या सम सह वदन्तमाभाषमाणं प्रेक्ष्य तं प्राक्पुरा जातं विकल्पं स्वस्त्रिया माधवसम्पर्क रूपवितर्क सत्यमेवाभ्यमन्यत निश्चितरूपेणाजानात् // 184 // अथ तत्कृतमाधषषधमाह-म्यहन्निति न्यहन् निशातया छुर्य्या धावित्वा सोऽपि माधवम् / / विवेकविकलाः प्रायः कर्म कुर्वन्ति किं न वा ? // 185 // स चन्द्रशेखरकुमारोऽपि धावित्वा क्रोधावेशाज्झटिति गत्वा निशातया अतितीक्ष्णया छुर्या असिधेनुकया माधवं न्यहन् हतवान्, ननु एतदनुचितमित चेत्तत्राह- प्रायः विवेकविकलाः मिथ्यावितर्कादिनोपहतमतयो जनाः किं कर्म न वा कुर्वन्ति ? अपि तु सर्वमेव वधादिकं कर्म कुर्वन्तीत्यर्थः / दुष्टप्रवृत्तौ विवेक एव बाधक इति भावः // 185 // अथ माधषस्य घातपीडामाह-तेनेति तेन घातेन दूनः स विलुलोठ विचेतनः / सादुर वीरस्य घातो हि किं दुःखं विदधातु न ? // 186 // तेन चन्द्रशेखरकृतच्छुरिकाप्रहारकृतेन घातेन व्रणेन विचेतनः गतचेतनः विरलः स माधवः विलुलोठ पृथिव्यामालोटयामास, घाततीव्रतया तथा भवत्येवेत्याह- हि यतः वीरस्य शक्तिमतः तादृक् छुरिकादिकृतः घातः महारः किं दुःखं न विदधातु ? अपि सर्वमपि विचे. तनत्वादिकं भूमिलठनादिकं च विदधात्वेवेति यावत् // 186 // मथ तस्य व्रणशोधनमाह -पित्रेति पित्रा प्रक्षिप्य पल्यङ्के नीतः स व्रणशोधनैः / सज्जीचक्रे क्रमादेवं स्त्रीकथाऽनर्थकारणम् // 187 // पित्रा माधवपित्रा नीतः उत्थाप्य गृहं प्रापितः पल्य३ प्रक्षिप्य स्थापयित्वा स माधवः व्रणशोधनैः व्रणचिकित्सनैः कृत्वा क्रमात् सज्जीचक्रे स्वस्थीकृतः, एवमुक्तप्रकारेण स्त्रीकथा अनर्थस्य कारणम्, भवतीति विरुद्धैति शेषः // 187 //