________________ AAAAAAAAAAAAAA 250 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। एष माधवः कथञ्चन जारकर्मादिना मे मम प्रियायाः योगं सम्पर्कमाससाद प्राप, किमिति वितर्के, नन्वेतादृशवितर्के किं बीजमिति चेत् तत्राह—यद्यतः सादरं साग्रह केरलदेशीयां लियं प्रशंसति, ? नहि केरलस्त्रीसम्पर्क विना तद्गुणोपरम्भसम्भवः केरली च ममैव स्त्री न तस्येति ताद्दशप्रशंसया वर्तते तादृशवितर्कावसर इति भावः // 179 // अथ तस्य दुर्ध्यानमाह पुरे इति-- पुरेऽत्र कापि नान्याऽस्ति केरली ममियामृते / तदेनमसिना दुष्टं शीर्षच्छेद्यं करोमि किम् // 180 // अत्रास्मिन् श्रीपुरे मम प्रियाम् ऋते विहाय अन्या काऽपि स्त्री केरली केरलदेशीया नाऽस्ति, तदेवं एनं तत्सम्पर्कोऽनेन कृत इति भावः / तत्ततो हेतोः दुष्टं परस्त्रीदूषकमेनंमाधवम् किमिति प्रश्ने / असिना खङ्गेन शीर्षेण छेद्यस्तम् तादृशम् करोमि किं शीर्ष छिनमि इति स्वमनसि विचारः परस्त्रीदूषको हि शीर्षच्छेदमेवाहतीति भावः // 180 // अथ तस्य विचारान्तरमाह-अन्येदेति अन्यदा वा हनिष्यामीत्येवं संचिन्त्य चेतसि / राजसूः स समुत्तस्थौ पृष्ठतोऽप्यस्य माधवः // 181 // वा अथवा अन्यदा कालान्तरे हनिष्यामि माधवमिति शेषः सहसा विदधीत न क्रियामित्युक्तेरिति भावः / इत्येवमुक्तप्रकारं चेतसि संचिन्त्य स राजसू राजपुत्रः चन्द्रशेखरः समुत्तस्थौ सभाया उत्थितवान् अस्य चन्द्रशेखरस्य पृष्ठतः पश्चान्माधवोऽपि, समुत्तस्थाविति सम्बध्यते // 181 // अथ दासीगमनमाह-तदेति तदा माधवमभ्येत्य तत्मिया किङ्करीति तम् / अन्वयुङ्क महाभाग ! मत्स्वामी विद्यतेऽत्र किम् // 182 // तदा तस्मिन्काले तस्य चन्द्रशेखरस्य प्रियायाः किङ्करी दासी माधवममेत्य माधवसमीपमागत्य तं माधवमितीत्थमन्वयुक्त पप्रच्छ, तदेवाह- महाभाग ! मम स्वामी ईशः चन्द्रशेखरः अत्र विद्यते किमिति प्रश्ने // 182 // तथ माधवकृतोत्तरमाह-प्रागिति मागासीदधुनाऽत्राऽस्ति वेति न वेति न वेदम्यहम् / इत्युक्ते तेन सा सौधं व्यावृत्यैव समागमत् // 183 // प्राग्पुरा आसीदत्राभूत्, अधुना अत्रास्ति नास्ति वा इतीदमहं न वेद्मीतीत्थं तेन माधवेनोक्ते सति सा व्यावृत्त्य पश्चाद्वलित्वा सौधं स्वप्रासादमेव समागमत् // 183 //