________________ 249 आ० श्रीविजयदर्शनसूरीश्वरकत-प्रबोधिनीयुतम् स्थितः माधवस्तदाख्यो वणिगाचष्ट किमित्याह-मम माधवस्य केरली केरलदेशोद्भवा स्त्री रोचते, सत्यम्, मदुक्तम् सत्यत्वेन प्रतिपद्यतामित्यर्थः // 174 // केरळीविषये स्वस्य रागाधिक्यमाह अहो ? इति-- अहो केरलदेशीयस्त्रीगुणौधेन परिते / हृदये नाऽवकाशोऽस्ति परासां योषितां मम // 175 // अहो इति सहर्षस्वाशंसायाम्, केरलदेशीयानां स्त्रीणाम् गुणौघेन पूरिते मम माधवस्य हृदये परासामन्यासां योषितां कृते अवकाशः रिक्त स्थानं नास्ति, केरलीष्वेव गुणवैलक्षण्यान्मम रागो नान्यास्वित्यर्थः // 195 // भथ केरलस्त्रियं धर्णयति मनोभवेति मनोभवारिणा दग्धो रशा मानसनन्दनः / मन्ये केरलदेशीयस्त्रीभिरुज्जीवितो दृशा // 176 / / मनोभवः कामस्तदरिः शिवस्तेन दृशा नेत्राग्निना दग्धः भस्मसात्कृतः मानसनन्दनः कामदेवः केरलदेशीयस्त्रीभिः दृशा नेत्रेण कृत्वा उज्जीवितः पुनर्जीवितः कृतः मन्ये शङ्के, शादग्धस्य दृशोज्जीवनमुचितमेवेति भावः / केरलीनां नेत्राणि तव्यापाराश्च कामजनका इत्यर्थः // 17 // _मथ केरलस्त्रीणां कामकलानैपुण्यमाह अपेक्षन्त इति-- अपेक्षन्ते युवानो ये कामकेलिकुतूहलम् / स्त्रियं केरलदेशीयां सेवन्तां ते मुखैषिणः // 177 // ये युवानः कामकेलौ रतिकीडायां कुतूहलमपेक्षन्ते इच्छन्ति, ते तादृशा युवानः सुखैषिणः रतिसुखाभिलाषिणः सन्तः केरलदेशीयां स्त्रियं सेवन्ताम्, तासां कामकलासु निपुणत्वादिष्टसिद्धेरिति भावः // 177 // मथ तत्र कस्यचिद्वितर्कमाह इदमिति - इदं तन्मुखतः श्रुत्वा कुमारश्चन्द्रशेखरः। तत्पाद्येऽवस्थितश्चित्ते क्षणमेवं व्यकल्पत् // 178 // तस्य माधवस्य मुखतः इदमुक्तप्रकारं श्रुत्वा तस्य माधवस्य पावें अवस्थितः कुमारश्चन्द्रशेखरः तदाख्यः चित्ते क्षणम् एवं वक्ष्यमाणप्रकारम् व्यकल्पद्वितर्कितवान् // 178 // तद्वितर्कमेवाह किमिति-- किमेष मे मियायोगमाससाद कथञ्चन / स्त्रियं केरलदेशीयां यत् प्रशंसति सादरम् // 179 //