________________ ર૪૮ श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / अथ तद्भार्यामाह तस्येति-- तस्यासीत् प्रभवप्रेमवल्लीवनघनप्रभा / सुन्दरी रूपसंपत्त्या देवी भुवनसुन्दरी // 17 // तस्य भुवनपालस्य प्रभवत्याः रोहमाणायाः प्रेम्णः एव वल्ल्याः वनस्य घनप्रभा मेघतुल्याः वल्ल्या घन इव प्रेम्णः वर्धिका रूपसंपत्त्या रूपाधिक्येन सुन्दरी भुवनसुन्दरी तदाख्या देव्यासीत् // 170 // अथ तत्र माधववणिजमाह सदिति सज्जनानन्दकुन्नन्दनन्दमित्रातनूभवः / तत्र माधवनामाऽभूद् वणिग् दोषनिकेतनम् // 171 // तत्र श्रीपुरे सजानानामानन्दकृतः सज्जनस्नेहिनः नन्दस्य तदाख्यस्य श्रेष्ठिनो नन्दमित्रायाः तदाख्यायास्तत्स्त्रियश्च तनूभवः पुत्रः दोषाणां निकेतनम् दुष्टः माधवनामा वणिगभूत् // 171 // अथ समायां वनिताकथामाह अन्यदेति अन्यदा नागरा रागात् सभामध्यमधिश्रिताः। उपचक्रमिरे कर्तुमन्योऽन्यं वनिताकथाः // 172 // अन्यदैकदा सभामध्यम् अधिश्रिताः सभायामुपविष्टाः नागराः रागात्’साग्रहं वनिताकथाः स्त्रीविषयालापान् कर्तुम् उपचक्रमिरे प्रवृत्ताः // 172 // स्त्रीकथोपक्रममेवाह निवेदयतेति-- निवेदयत भोः ! कस्य जाताः क कोपवर्त्तने / रोचन्ते वनिता यावदित्युक्ते कोऽपि नाऽभ्यधात् // 173 // भोः ! सभासदः ! निवेदयत कथयत, किमिति चेत्तत्राह कस्य क्व क्व कस्मिन् कस्मिन् उपवर्तने देशे "देशविषयौ तूपवर्त्तनमि" त्यमरः जाताः वनिताः रोचन्ते इष्टाः, यावदित्युक्ते उक्तप्रकारप्रश्ने कोऽपि जनः नाभ्यधात् उत्तरं न ददौ // 173 // अथ माधवकृतोत्तरमाह माधव इति माधवस्तावदाचष्ट स्मयमानमुखाम्बुजः। संसदन्तः स्थितः सत्यं रोचते मम केरली // 174 // तावत्ततः स्मयमानमीषस्मितम् मुखाम्बुजं यस्य स तादृशः अहं स्त्रीरसिकः उत्तरदानपटुश्चेत्येवं महत्तयाऽऽत्मप्रकाशनेन चेषत् स्मितं कुर्वन्नित्यर्थः संसदः सभायाः- अन्तर्मध्ये