________________ आ० विजयदर्शनसूरीश्वरकृत-प्रयोधिनीयुतम् / 247 _ 'पुंसां भोजस्य भक्ष्यस्य, उपलक्षणत्वात्पेयादेरपि, कथया वार्तया भोज्ये विषये भृशमत्यन्तं लम्पटता स्वादलालसता, जायते इतिशेषः, ततश्च, हेतोः, सौहित्यं तृप्तिः “सौहित्यं तर्पणं तृप्ति" रित्यमरः / न प्रजायते, इतरेतरभोज्याकाङ्क्षासत्वादिति भावः / तद् सौहित्यं विना ना पुरुषः पशूपमः पशुसदृशः पशुरिव यत्तद् भोक्तुमिच्छतीति भोज्यकथा तृप्तिमिच्छता त्याज्येत्यर्थः // 165 // अथ देशकथां दूषयन्नाह तदिति तत्तद्देश्यैः समं देशकथा पुसां विरोधिताम् / विदधाति यतो निन्दा स्वदेशस्य सहेत कः // 166 // तैः तैः विविधैः देश्यैः देशोद्भवैः समं सह पुंसां देशकथा देशगौरवादितारतम्यकथा विरोधितां विदधाति, तत्र हेतुमाह-यतः कारणात् स्वदेशस्य निन्दां कः सहेत ! न कोऽपीत्यर्थः // 166 // अथ नृपकथादोषमाह राक्षामिति राज्ञां कथाऽपि निबन्धात् क्रियमाणाऽप्यनर्थदा / नरेन्द्र ! माधवस्येव नरस्याऽल्पितमाधव ! // 167 // राज्ञां कथाऽपि नृपगुणदोषवार्ताऽपि निर्बन्धात्पक्षपात्ताक्रियमाणा अनर्थदाऽपि अनर्थकारिण्येव, तत्र दृष्टान्तमाह-अल्पितः न्यूनः कृतः बलवीर्यादिना माधवः कृष्णः येन स तत्सम्बोधनेऽल्पितमाधव ! नरेन्द्र नृप ? कुरुचन्द्र ! माधवस्य तदाख्यस्य नरस्येव, अनर्थदेति // 167 // कथामेव प्रस्तौति तथाहीति तथा हि भरतार्थेऽत्र दक्षिणे श्रीपुरं पुरम् / अधिवासं प्रकुर्वत्या यस्याऽऽख्या पप्रथे श्रिया // 168 // ___ कथाप्रस्तावोऽत्रास्मिन् भरतस्यार्धे दक्षिणे दक्षिणभरते श्रीपुरं तदाख्यं पुरम् नगरं अस्तीति शेषः श्रिया लक्ष्म्या अधिवासं वसतिं प्रकुर्वत्या सत्या यस्य श्रीपुरस्याख्या नाम पप्रथे ख्यातम् // 168 // तत्र भूपमाह भूप ईति। भूपो भुवनपालोऽत्र भुवनाऽवनविक्रमः / बभूव भूवधूभालचित्रनिर्माणकर्मठः // 169 // अत्र श्रीपुरे भुवनस्य लोकस्यावने रक्षणे विक्रमो यस्य स तादृशः भुव एव वध्वाः भाले ललाटे चित्रनिर्माणे तिलकरचने कर्मठः निपुणः पृथ्वीषु तिलक इव भुवनपालस्तदाख्यो भूपो बभूव // 169 //