________________ श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः अथ तस्य मृत्याचाह-एकेति एक एव भ्रमल्लोकैर्हस्यमानः पदे पदे स मृत्वाऽनन्तकायेषु प्रमादात् समपद्यत // 161 // पदे पदे लोकैः हस्यमान आचारभ्रष्टत्वात् शिष्यादिभिस्तिरस्कृतत्वाच्चोपहस्यमानः एकः एकाक्येय भ्रमन् स भानुदत्तः मृत्वा प्रमादाद्धेतोः अनन्तकायेषु साधारणवनस्पतिषु समपद्यत जज्ञे // 161 // मथोपसंहरति-गिति ईदृग् निद्राप्रमादोऽयं वय॑स्तुर्यस्त्वया नृप ? ममेवाक्यवदत्यन्तं विषसंपृक्तभोज्यवत् // 162 / . नृप ! कुरुचन्द्र ! त्वया अयमुक्तप्रकारः ईदृग् अहितसाधकः तुर्यश्चतुर्थः निद्रा एव प्रमादः अत्यन्तम् त्याज्यः, क इवेत्याह-मर्मवाक्यवत् मर्मभेदिवाक्यवत् विषसंपृक्तभोज्यवत् विषमिश्रान्नवच्च यथा हि विषान्नं मृतिसाधकतया त्यज्यते, तथा निद्राख्यप्रमादोऽपि त्याज्य इति भावः // 162 // अथ स्न्यादिकथात्यागमाह स्त्रीति स्त्रीभक्तदेशभूपानां कथास्त्याज्या विशारदैः। प्रत्येकं दूषणं दृष्ट्वा विशिष्टस्वेष्टलिप्सया // 163 // विशारदः शुभबुद्धिभिः विशिष्टस्य मुक्त्यादिरूपस्य स्वेष्टस्य निजहितस्य लिप्सया लब्धुमिच्छया हेतुना स्त्रीणाम् भक्तानामशनपानादीनां देशानाम् भूपानां च कथाः प्रत्येक स्त्र्यादिप्रत्येकं कथायां दोषं वैगुण्यं दृष्ट्वा त्याज्या वर्जनीया // 163 // स्यादिकथासु प्रत्येकं दोषमेव दर्शयन्नाह स्त्रीति स्त्रीकथामतिपत्तेः स्याद् मनसः सानुरागता / कज्जलस्य प्रसङ्गेन कालिमा किं न संभवेत् // 164 // स्त्रीणां कथायाः तदङ्गादिहावादिचर्चायाः प्रतिपत्ते: करणात् मनसः सानुरागता स्त्रीविषयासक्तिः स्यात्, ननु कथामात्रेण कुत एतदिति चेत्तत्र दृष्टान्तमाह कज्जलस्य मषेः प्रसङ्गेन सम्पर्केण कालिमा न सम्भवेत् किम् ! अपितु भवेदेव, तद्वत् स्त्रीणां कथातः तासु प्रसक्तिनियमतो जायते इति भावः // 16 // अथ भोज्यकथादोषमाह भोज्यस्येति भोज्यस्य कथया पुंसां भोज्ये लम्पटता भृशम् / सौहित्यं न प्रजायेत तद् विना ना पशूपमः // 165 / /