________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तस्य भानुदत्तस्य पुनः तेन रसलोभेन कृत्वा स पूर्वपरिचितः निद्रारूपः प्रमादः उल्ल. लास विस्पष्टोऽभूत् , तत्र दृष्टान्तमाह मैथुने स्त्रीप्रसङ्गे आसक्तया अधिकप्रवृत्त्या स्फुटं निश्चितम् राजयक्ष्मणः तदाख्यमहारोगस्योदयः प्राप्तिः सम्भवेत् / यथाऽधिकमैथुनेन राजयक्ष्मोदयस्तथा रसलोभेन निद्राधिक्यप्रसङ्ग इति भावः // 157 // तस्य निद्रापरवशताधिक्यमाह-प्रतिक्रमणेति प्रतिक्रमणकालेऽपि नायं जागतिं नित्यशः / निद्रावशंवदः को वा हितं जानाति तत्त्वतः // 158 // अयम् भानुदत्तः नित्यशः प्रत्यहः प्रतिक्रमणकालेऽपि आवश्यकक्रियासमयेऽपि, किं पुनरन्यस्मिन् काले इत्यपेरर्थः नैव जागर्ति, किन्तु निद्रायत एव ननु कल्याणकर्मणि प्रमादोऽहित इति चेत्तत्राह निद्रावशंवदः अतिनिद्रालुः को वा जनः तत्त्वतः हितं जानाति ? न कोऽपीत्यर्थः, तत्त्वतोऽहितां निद्रामेवेच्छतीति भावः // 158 // अथ शिष्यकृतत्यागमाह-क्षात्वेति ज्ञात्वा तं तादृशं शिष्या अशुद्धान्नवदत्यजन् / विषसंवासितं को वा पद्मं जिघ्रति शुद्धधीः? // 159 // तं भानुदत्तं गच्छेशं तादृश मिति निद्रालुं ज्ञात्वा शिष्या अशुद्धान्नवदकल्प्यान्नमिव अत्यजन् , ननु गुरुत्यागोऽनुचित इतिचेत्तत्राह कः शुद्धधीः निर्मलबुद्धिः पुमान् विषसंवासितं विषमिश्रितं पद्म कमलं जिघ्रति घ्राणग्राह्यं करोति ? न कोऽपीत्यर्थः, मरणभयादितिभावः तद्वद् गुरुरपि चारित्रशिथिलोऽहितभयात्त्यज्यत एवेति भावः // 159 // अथ तस्य श्रुतिविस्मृत्याद्याह-विसेति विसस्मार प्रमादेन मूढधीस्तेन तच्छुतम् / सम्यग्दर्शनरत्नं च जहे चाऽस्य नरेन्द्रवत् // 160 // तेन निद्रालुताहेतुना मूढधीः मन्दबुद्धिः सन् , निद्रालोहि बुद्धिर्भश्यतीति भावः प्रमादेन निद्रारूपेण कृत्वा तदृष्टवादादिरूपं श्रुतमागममधीतं विसस्मार विस्मृतिमगमयत् अस्य भानुदत्तस्य गच्छेशस्य च सम्यग्दर्शनं तदेव रत्नमिव दुर्लभत्वादुपादेयत्वाच्च रत्नं तद् नरेन्द्रवन्नृपवद् व्यालप्राहिवद्वा जहे लुप्तम् विनष्टम् नृपस्य व्यालग्राहिणो वा रत्नहानिरिव यतेः सम्यग्दर्शनरत्नहानिः सर्वस्वहानिरित्यर्थः // 10 //