________________ 244 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। ____स भानुदत्तः स्वस्योत्तरीयस्य ऊर्ध्ववस्त्रस्याञ्चलं रिक्तं मणिशून्यं दृष्ट्वा मूर्छन् मोहमुपगच्छन् पपात तथा क्रमात् वातैः पवनैः कृत्वा चैतन्य संज्ञामासाद्य प्राप्य स्वमात्मानं निजगौतमाम् अत्यन्तं निनिन्द // 152 // अथ तस्य पुनर्रव्योपार्जनमाह-प्रविश्येति प्रविश्य नगरे तत्र स ततस्ततविक्रमः / भृत्यत्तिमधिष्ठाय रैसहस्रमुपाजयत् // 153 // स भानुदत्तः तत्र समीप नगरे प्रविश्य गत्वा ततोऽनन्तरम् ततविक्रमः समाश्रितपौरुषः सन् भृत्यवृत्तिं दासत्वमधिष्ठाय आश्रित्य रैसहस्र सुवर्णसहस्रमुपार्जयदर्जितवान् // 153 // . अथ तस्य पुनस्तद्धनमोषणमाह-क्रीत्वेति क्रीत्वाऽजितधनैः स्वर्ण लात्वा गच्छन् निजं पुरम् / _ग्रामाद् बहिष्कचित् सुप्तः सोऽमोषि परमोषिणा // 154 // अर्जितधनैः स्वर्ण क्रीत्वा लात्वा तत्स्वर्ण गृहीत्वा निजं पुरं गच्छन् प्रामावहिः क्वचित्सुप्तः सन् स भानुदत्तः परमोषिणा चौरेण अमोषि चोरितः // 154 // अथ तद्वैराग्यमाह-वैराग्यमिति वैराग्यं परमं प्राप्तः स प्राप्य सुगुरोर्बतम् / दृष्टिवादमतिस्पष्टमध्यगीष्ट विनांशकम् // 155 // . स भानुदत्तः तत्र समीपस्थे नगरे प्रविश्य गत्वा सुगुरोर्वतं दीक्षां लात्वा दृष्टिवादं तदाख्यमागमम् द्वादशमङ्गं अंशकं विना सम्पूर्णमेवातिस्पष्टम् मुखाग्रस्थं अध्यगीष्ट पपाठ // 155 // अथ तस्य गच्छाधिपत्यमाह-अथो इति अथो गच्छाधिपत्येऽसौ गुरुभिः स्थापितः क्रमात् / रसगौरवलाम्पटयं मिष्टभुक्तथा बभाज सः // 156 // अथो अनन्तरम् , गुरुभिः असौ भानुदत्तः क्रमात् गच्छाधिपत्ये सूरिपदे स्थापितः सन् स भानुदत्तः मिष्टभुक्तया मिष्ठान्नभोजनेन कृत्वा रसगौरवेषु रसास्वादेषु लाम्पट्यमतिरागम् बभाज प्राप, रसलुब्धोऽभूदित्यर्थः // 156 // भथ तस्य पुननिंद्राधीनतामाह-उ० इति उल्लालास पुनर्निद्राप्रमादस्तेन तस्य सः / संभवेद् मैथुनाऽऽसक्तया राजयक्ष्मोदयः स्फुटम् // 157 //