________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 243 अथ तस्य पुनरुत्थापनमाह-क्रियेति क्रियासमभिहारेण तेनैवं भणितोऽपि सः। नैवोत्थितो यदा तावल्लुब्धोऽसावित्यचिन्तयत् // 148 // तेन जनेन एवमुक्तप्रकारेण क्रियासमभिहारेण पौनःपुन्येन भणितः कथितोऽपि से भानुदत्तः यदा नैवोत्थितः गतनिद्रोऽभूत् , तदा असौ लुब्धः चौरप्रकृतिरिति वक्ष्यमाणप्रकारेण अचिन्तयच्चिन्तितवान् // 148 // तच्चिन्तामेवाह-पाषाणेति पाषाण इव पान्योऽयं मार्गाऽऽयासाद् न चेतति / तदस्य सन्निधेर्वित्तं गृह्णाम्यह्नाय निश्चितम् // 149 // अयं शयितः पान्थः मार्गस्य मार्गगमनस्यायासात् श्रमाद्धेतोः पाषाण इव न चेतति संज्ञां गच्छति, श्रमाद्धेतोः गाढ़निद्रापरवशोऽस्तीत्यर्थः तत्ततोऽस्य शयालोः सन्निधेः वित्तं धनमहाय शीघ्रमेव निश्चितं गृह्णामि // 149 // अथ तस्य मणिमोषमाह-विचिन्त्येति विचिन्त्यैवं पटीपान्तान् शोधचित्वाऽस्य तन्मणिम् / पाप्य तुष्टः प्रणश्याऽगात् पदैद्रुतमरैस्ततः // 150 // एवमुक्तप्रकारेण विचिन्य अस्य शयालोर्भानुदत्तस्य पटीप्रान्तान् वस्त्राञ्चलानि शोधयित्वाऽ. विप्य तत् प्राप्तं मणिं वस्त्रबद्धं प्राप्य नीत्वा तुष्टः ततः स्थानात् द्रुततरैः पदैः लघुपादन्यासै; कृत्वा प्रणश्य पलायित्वाऽगात् // 150 // अथ भानुदत्तस्य निद्राभंगमाह-वीइति विहस्तीकृतलोकः स हस्ती तत्र न चाऽऽगमत् / व्यबुद्ध भानुदत्तोऽपि हतबुद्धिः क्षणान्तरे // 151 // स मत्तः विहस्तीकृतः व्याकुलीकृतः लोकः येन स तादृशः "विहस्तो व्याकुलो व्यग्र" इत्यमरः हस्ती तत्र भानुदत्ततमीपे न च नैव आगमत् , हतबुद्धिः मन्दबुद्धिः भानुदत्तोऽपि क्षणान्तरे कालानन्तरः व्यबुद्ध गतनिद्रोऽभूत् // 151 // अथ तस्य मूर्छामाह-स्वेति स्वोत्तरीयाञ्चलं रिक्तं दृष्ट्वा मूर्छन् पपात सः / वातैश्चैतन्यमासाद्य क्रमात् स्वं निजगौतमाम् // 152 //