________________ 242 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। अथ तत्राधिदेवकृतमणिक्षेपमाह-इतीतिइत्यहर्निशमेतस्याऽऽतन्वतः सत्त्वबोधतः / अब्ध्यधिष्ठायकस्तुष्टो गर्ताऽन्तः क्षिप्तवान् मणिम् // 143 // इति उक्तप्रकारेण सत्त्वबोधतः आत्मबलज्ञानेन अहर्निशमातन्वतः कुर्वतः एतस्य भानुदत्तस्य तुष्टः प्रसन्नः अब्धेः समुद्रस्य अधिष्ठायकः अधिष्ठाता देवः, वरुण इत्यर्थः, गाया अन्तः मध्ये मणिं क्षिप्तवान् // 143 // अथ तस्य ततः प्रस्थानमाह-स सति___ स वेलाऽपगमे तत्र रत्नं वीक्ष्याऽतिभासुरम् / हृष्टो निबध्य तद् वस्त्रस्याऽश्चले चलितस्ततः // 144 // स भानुदत्तः वेलायाः समुद्रजलवृद्धेरपगमे अधोगते सति तत्र गर्तायाम् अतिभासुरमुज्ज्वलं रत्नं वीक्ष्य हृष्टः तद्रत्नं वस्त्रस्य अञ्चले प्रान्ते निबध्य बद्ध्वा ततः सिन्धुतटाच्चलितः // 144 // अथ तस्य शयनमाह-स्वेति स्वपत्तनं समागच्छन् सान्द्रद्रमतलेऽन्यदा / कचिद् मार्गपुरोपान्ते संविवेश स सश्रमः // 145 // अन्यदैकदा स्वपत्तनं स्वनगरं प्रति समागच्छन् स भानुदर्तः सश्रमः श्रान्तः सन् क्वचिद् मार्गे पुरस्योपान्ते समीपे सान्द्रस्य घनच्छायस्य द्रुमस्य तले संविवेश शिश्ये // 15 // अथ तत्र नरान्तरागमनमाह-अथेति अथऽत्राऽगाज्जनो मत्तमातङ्गभयविह्वलः / तदैकेन स चावादि प्रमीलामिलितेक्षणः॥१४६॥ अथानन्तरम् अत्र भानुदत्तसमीपे मत्तान्मातङ्गात्करिणः भयेन विह्वलो व्याकुलः जनः आगात्, तदा एकेन जनेन प्रमीलया निद्रया मीलितेक्षणः मुद्रितनेत्रः स भानुदत्तः अवादि कथितश्च // 146 // तत्कथनमेवाह-अरे ! इति अरे ! पान्थ ! समुत्तिष्ठ समुत्तिष्ठ विपत्स्यसे / मूलादालानमुन्मूल्य मत्तेभोऽत्र समेति यत् // 147 // ___ अरे ! पान्थ ! पथिक ! समुत्तिष्ठ ! जागृहि जागृहि, समभ्रममाह- यद्यतः मत्तेभः मदोन्मत्तहस्ती मूलात् आलानं बन्धनस्तम्भं "आलानं बन्धनस्तम्भे" इत्यमरः, उन्मूल्योत्पाट्य अत्र समेत्यागच्छति, अत्र स्थितस्त्वं तेन हतः स्या इति पलायस्वेति भावः // 147 //