________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 241 अथ तस्य सिन्धुतटस्थितिमाह-अयमिति-- अयं कामुकवद् भ्राम्यन् विषयाद् विषयान्तरम् / सिन्धुरोधः समासाद्य रत्नार्थी तदसेवत // 138 // अयं भानुदत्तः कामुकवत् कामिपुरुषवत् , विषयादेशात् , अथ च वनितादिरूपविषयात्, विषयान्तरं देशान्तरं, अथ च वनितान्तरं, भ्राम्यन् अटन् . प्रसृजन् वा, रत्नार्थी सिन्धोः सागरस्य रोधस्तटं समासाद्य प्राप्य तत् सिन्धुरोधः असेवत, सिन्धो रत्नाकरत्वात्तत्सेवने रत्नलाभसम्भव इत्याशयेति भावः // 138 // अथ तस्य सिन्धुपूजामाह-पूजामिति पूजां विना फलाऽवाप्तिन काऽपि समवेक्ष्यते / इति धृत्वाऽऽशये सोऽपि सिन्धोरों प्रचक्रमे // 139 // पूजामर्चा विना फलावाप्तिरिष्टसिद्धिः काऽपि न समवेक्ष्यते / इतीत्थमाशये मनसि धृत्वा निर्धार्य स भानुदत्तोऽपि सिन्धोरर्चा पूजां प्रचक्रमे कर्तुमारब्धवान् // 139 // अथ तस्य गर्ताखननमाह-पुष्पेति-- पुष्पप्रकरधूपायैः पूजयित्वा पयोनिधिम् / स गर्तामखनत् तीरे गम्भीरां चित्तवृत्तिवत् // 14 // स भानुदत्तः पुष्पाणां प्रकरैः समूहैः धूपौधैश्च पयोनिधिं समुदं पूजयित्वा तीरे समुद्रतीरे चित्तवृत्तिवत् स्वचित्तवृत्तिवद् गभीरां गर्तामवटमखनत् खननेन समपादयत् // 140 // अथ तत्र वराटकानाह-वेलायामिति- वेलायां विनिवृत्तायां तत्राऽऽयातः स सत्वरम् / वराटकान् समालोक्य विषादमधिकं दधौ // 141 // वेलायाम् पयोधिजलवृत्तौ विनिवृत्तायाम् अधोऽगत्यां सत्याम् स भानुदत्तः सत्वरम् तत्र गर्तापावें आयातः सन् वराटकान् समालोध्य अधिकं विषादं खेदं दधौ कृतवान् // 141 / / मथ तस्य पुनरुद्योगमाह-लक्ष्मीति-- लक्ष्मीनिदानमुद्योग इत्येवं कलयन्नयम् / विशेषाद् विदधे तच्च स्वायासमविचारयन् // 142 // उद्योगः प्रयत्नः लक्ष्म्याः निदानं मूलकारणम् इत्येवं कलयन् विचारयन् अयं भानुदत्तः अविचारयन् प्रस्तुतोद्योगात्फलसिद्धि३ वेत्येवमविचारयन्नेब विशेषादाधिक्येन तद् गर्ताखननरूपं स्वायासं स्वोद्योगं विदधे च // 142 // शा० 31