________________ "श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। - निंदापरवशः निद्रालुः इहामुत्रापि भानुदत्त इव तदाख्यजीव इव दुःखान्यश्नुते प्राप्नोति // 133 तत्कथामेवाह तथाहीति तथाहि सिद्धार्थपुरे राजा शत्रुज्जयोऽजनि // 134 // कोकानामिव लोकानां शोकानां यो वियोगकृत् // 134 // तथाहीति वार्तानिर्देशे, सिद्धार्थपुरे शत्रुञ्जयः तदाख्यः राजा अजनि बभूव यः शत्रुञ्जयः कोकानामिव चक्रवाकानामिव लोकानां शोकानां वियोगकृन्नाशक, आसीदिति शेषः “कोकश्चक्रश्चक्रवाक" इत्यमरः यथा सूर्योदये कोकाः कोकीसङ्गमाद्वियोगजन्यदुःखं त्यजन्ति, तथा स राजा लोकशोकमोचक आसीदित्यर्थः // 134 // अथ भार्यामाह धनमालेति.. वनमालाऽभिधा तस्य महिपी भूपतेरभूत् / .......... - गौरीति विकले देशे या विजाडया विवर्ण्यते // 135 // तस्य शत्रुञ्जयस्य भूपतेः वनमालाभिधा महिषी पट्टराज्ञी अभूत् , विजाड्या जाड्यविगता, बुद्धिमतीत्यर्थः या वनमाला विकले सकले विशिष्टकलायुक्ते देशे गौरीति नाम्ना विवर्ण्यते कथ्यते // 135 // अथ तत्र भानुदत्तमाह-भानुदत्त इति भानुदत्तोऽभवत् तत्र कुटुम्बी दौस्थ्यभाजनम् / मायो लक्ष्मीसरस्वत्योः स्थितिः पुण्यात्मनां नृणाम् // 136 // तत्र सिद्धार्थपुरे भानुदत्तस्तदाख्यः कुटुम्बी गृहस्थः दौस्थ्यभाजनम् दरिद्रोऽभवत् , दौस्थ्ये हेतुमाह प्रायः बाहुल्येन पुण्यात्मनां नृगामेव लक्ष्मीसरस्वत्योः धनविद्ययोः स्थितिः सङ्गमः, अन्यथा तु द्वयोरेकैव, एकापि वा नेति भावः // 136 // अथ तस्य धनार्जनार्थ प्रस्थानमाह अर्थ मिति-- भी अर्थ विना न संमानं केऽपि कुर्वन्ति कस्यचित् / __ स चित्ते परिभाव्यैवं प्रतस्थे धनमाणितुम् // 137 // केऽपि जनाः अर्थ विना धनरहितस्य कस्यचित्कस्यापि सम्मानं न कुर्वन्ति, एवमित्थं चित्ते परिभाव्य विचार्य स भानुदत्तः धनमार्जितुं प्रतस्थे देशान्तरं प्रति चलितवान् // 137 //