________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् तैः गुणसागरपरिजनैः बर्हिबन्धेन रज्जुबन्धनेन बद्ध्वा निगृह्य स लोभानन्दः नृपतेः पुरोऽये निन्ये, दुष्टैः दोषपूर्णैः तस्य लोभानन्दस्य चेष्टितैः कर्मभिः कृत्वा रुष्टः क्रुद्धः राजा तं लोभानन्दं वध्यम् आदिशत् लोभानन्दवधमादिष्टवान् // 128 // अथ तस्य चतुर्थनरकप्राप्तिमाह कदथैति कदर्थनाभिस्याभिर्बहीभिः स कर्थितः। रौद्रध्यानी विपद्याऽगात् तुरीये निरये रयात् // 129 // बह्वीभिः उग्राभिः असह्याभिः कदर्थनाभिः पीडाभिः कदर्थितः स रौद्रध्यानी अशुमध्यान मग्नः सन् विपद्य मृत्वा स्यात्सद्य एव तुरीये चतुर्थे निरयेऽगात् // 129 // अथ तस्य विविधयातनामाह तत्रेति तत्रोत्कृष्टायुरासेहे विविधाः सोऽपि यातनाः कषायाणां चतुर्णा हि मेलो दुःखस्य मेलकः // 130 // तत्र चतुर्थनरके उत्कृष्टायुः परमायुष्कः स लोभानन्दजीवः विविधा नानाप्रकाराः अपि यातना नरकदुःखानि - आसेहे, तदेव समर्थयति-हि यतः कषायाणां चतुर्णाम् क्रोधादिचतुःकषायाणां मेलः सङ्गमः दुःखस्य मेलकः प्रापकः, अस्तीति शेषः // 130 // अथ कथामुपसंहरति इतीत्थमिति इत्थं सोऽपारसंसारपान्तरपान्त एव यत् / भ्रमिता व्यज्यतां तस्मात् प्रमादोऽयं तृतीयकः // 131 // स लोभानन्दजीवः इत्थमुक्तप्रकारेण अपारोऽनन्तः संसार एव गहनत्वात्प्रान्तरः वनगहनं तत्प्रान्त एव भ्रमिता भ्रामणं करिष्यतीत्यर्थः / तस्माद्धेतोः अयं वर्णितः तृतीयकः प्रभादः लोभाख्यः कषायः त्यज्यताम् , अन्यथा महाननर्थ इति भावः // 131 // अथ निद्रात्यागमाह कुरुचन्द्रेति कुरुचन्द्र! महीचन्द्र ! निद्रारूपश्चतुर्थकः / प्रमादस्त्यज्यतां यस्मादिहाऽमुत्र सुखं नहि // 132 // मह्यां चन्द्र इव सः तत्सम्बोधने महीचन्द्र कुरुचन्द्र ? निद्रारूपः चतुर्थः प्रमादः कषायस्त्यज्यताम् , यस्मान्निद्रारूपाच्चतुर्थात्प्रमादाद्धेतोः इह इहलोकेऽमुत्र परलोके च सुखं नहि नास्तीत्यर्थः // 132 // / तत्र दृष्टान्तं प्रस्तौति निद्रेति-- निद्रापरवशः प्राणी वित्तबुद्धिपरिक्षयात् / इहाऽमुत्राऽपि दुःखानि भानुदत्त इवाऽश्नुते // 133 //