________________ श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः। ___ लोभानन्दः धनमृते विना चिन्ताभिराचान्तं व्याप्तं स्वान्तं मनो यस्य तादृशोऽतिचिन्तितः सन् पुनः गम्भीरपुरमेवागात् ननु किमिति पुनस्तत्रैवागादित्याह- यथतस्तादृग रत्नादिरूपं धनमन्यत्र स्थाने न, नाभूदित्यर्थः // 123 // अथ गुणसागरवृत्तान्तमाह--तश्चेति - इतश्च पातितो योऽब्धौ तेन पोतपतिस्तदा / सोऽपि माग्भग्नयानस्य पापत् फलकमेककम् // 124 // इतोऽस्मिन् समये च, तदा प्राक् तेन लोभानन्देन यः पोतपतिः पोतेशः गुणसागरः अब्धो पातितः क्षिप्तः स गुणसागरोऽपि प्राक् पुरा भग्नस्य यानस्य पोतस्य एककमेकं फलक खण्डं प्रापत् // 124 // अथ तस्य स्वपुरप्राप्तिमाह-प्रेति-- घेर्यमाणः स कल्लोलैर्वातोद्धृतैरितस्ततः। .. दिनानां सप्तकेनाऽऽप तदेव पुरमात्मनः // 125 // स गुणसागरः वातो तैः पवनोत्थैः कल्लोलैः तरङ्गैः इतस्ततः प्रेर्यमाणः तरङ्गात्तरगान्तरं प्राप्यमाणः दिनानां सप्तकेन सप्तभिर्दिवसैः कृत्वा तदेव आत्मनः पुरं गम्भीरपुरमाप प्राप // 125 // अथ तदागमननिमित्तं महोत्सवमाह--सुजनैरिति सुजनमुदितैस्तस्य दर्शनादेव पत्तने / ..अकार्यत महान् ऋद्ध्या वर्धापनमहोत्सवः // 126 // " तस्य गुणसागरस्य पत्तने नगरे दर्शनादेवावलोकनमात्रतः मुदितैः सुजनैः ऋद्ध्या द्रव्येण स्वसम्पदा वा महान् वर्धापनमहोत्सवः अकार्यत कारितः // 126 // मथ लोभानन्दस्य तद्गृहप्राप्तिमाह-स इति-- स क्रमाल्लोभनन्दोऽपि दैवात् तद् गृहमागमत् / रुष्टः परिजनस्तस्य तवृत्ताऽवबोधतः // 127|| क्रमात् स लोभानन्दोऽपि दैवाद्योगानुयोगात्तस्य गुणसागरस्य गृहमागमदागतवान् तस्यगुणसागरस्य परिजनः परिवारजनः तस्य लोभानन्दकृतस्य वृत्तान्तस्य चरितस्यावबोधतः ज्ञानाद्धेतोः रुष्टः कुपितः अभूदिति शेषः // 127 // अथ तस्मिन् राशः कोपमाह--बहिरिति बहिबन्धेन बद्ध्वा ततैः स निन्ये नृपतेः पुरः / दुष्टैस्तच्चेिष्टितै रुष्टस्तं राजा वध्यमादिशत् // 128 //