________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अथ पुनलोभानन्दस्य मुक्तिमाह-यूकेति यकालक्षाश्रया लिक्षाकोटयाधारा मम प्रभो। इयं कन्थाऽस्ति नैवान्यदित्युक्ते तं मुमोच सः // 119 // प्रभो ? स्वामिन् ! मम इयं दृश्यमाना कन्था स्यूतजीर्णवस्त्रसन्ततिः यूकानां क्षुद्रजन्तुविशेषाणां लक्षाणां लक्षसंख्यकानामाश्रयः, तथा लिक्षाणां क्षुन्द्रजन्तुविशेषाणां कोटीनां तत्संख्य कानामाधारः अस्ति, न त्वत्रान्यदित्युक्ते इतीत्थमुक्ते कथिते सति स चौरराजस्तं लोभानन्दं मुमोच // 119 // अथ पुनः खगोक्तिमाह भूय इति-- भूयः खगस्तदाऽऽचष्ट स्पष्टवाक् कीरवत् स तु / जन्मान्तरविरोधीच लोभानन्दस्य केवलम् // 120 // तदा लोभानन्दे मुक्ते स तु शाखास्थितः खगः कीरवत् शुकवत्स्पष्टवाक् व्यक्तवाक् सन् लोभानन्दस्य जन्मान्तरस्य पूर्वजन्मनः विरोधी द्वेषीव तदनिष्टत्वादिति भावः केवलमाचष्ट पूर्वोक्तमेव जगौ // 120 // . ' अथ तत्कन्थाद्यपहारमाह--अवीति-- अविसंवादिवाक्यत्वाद् विहङ्गस्य स तैः पुनः / रुद्धः कन्थाद्यमाच्छिध व्यमोचि शववत् पुनः // 121 // विहङ्गस्य पक्षिणः अविसंवादिवाक्यत्वात्प्रत्यक्षविषयविषयकवाक्त्वाद्धेतोः पक्षी यथार्थमेव सदा वक्तीति हेतोरित्यर्थः / तैः चौरैः पुनः रुद्धः गृहीतः स लोभानन्दः कन्थाद्यम् कन्थादिकमाच्छिय बलाद् गृहीत्वा पुनः शववत् मृतकवत् धनवस्त्राद्यपहारान्मृतकतुल्य इत्यर्थःव्यमोधि // 121 // अथ चौरैः रत्नादानमाह-तथेति-- तथा कृते च तैः पक्षी मौनमालम्व्य तस्थिवान् / कन्थामुत्कील्य रत्नानि चौरैराददिरे ततः॥१२२॥ तैः चौरैः तथाकृते लोभानन्दकन्थाद्यपहारे कृते सति च पक्षी मौनमालम्व्य तस्थिवान् , पुनर्न जगावित्यर्थः ततस्तदनन्तरं चौरैः कन्थामुत्कील्य विदार्य रत्नानि आददिरे गृहीतानि // 122 // अथ लोभानन्दस्य गम्भीरपुरगमनमाह--लोभेति लोभानन्दः पुनश्चिन्ताऽऽचान्तस्वान्त ऋते धनम् / गम्भीरपुरमेवाऽगात्. तादृग नान्यत्र यद् धनम् // 123 //