________________ 236 श्रीशान्तिनाथमहाकाव्यम्-सप्तदशः सर्गः। ... अथ पक्षिकथनमाह-गच्छत इति गच्छतस्तस्य मार्गेऽस्ति कान्तारे चौरसैन्यकम् / शाखिशाखास्थितः पक्षी तस्याऽग्रे प्रोचिवानिदम् // 114 // गच्छतः तस्य लोभानन्दस्य मार्गे चौरसैन्यकम् चौरसमूहोऽस्ति अभूत् तस्य चौरसैन्यस्याग्रे शाखिनः वृक्षस्य शाखायां स्थित उपविष्टः पक्षी इदं वक्ष्यमाणं प्रोचिवान् // 111 // तद्वधनमाह-अहो ! इति- . अहो ! एताः समायान्ति बहवो द्रव्यकोटयः / तद् गृह्णीत यथा न स्यात् दारिद्रयं वः कदाचन // 11 // अहो ! इति संबोधने हर्षे वा एताः मया ज्ञायमाना बहवो द्रव्यकोटयः समायान्ति केनाऽपि नीयमाना इति शेषः तदागच्छन्न्यो द्रव्यकोटयः गृहीत, यथा वः चौरसैन्यानां कदाचन कदापि दारिद्रयं न स्याद् भवेत् , भवतां दारिद्रयोन्मूलनपरिमाणास्ता द्रव्यकोटय इत्यर्थः / / 115 // अथ चौराणां तदन्वेषणमाह-निशम्येति निशम्येति प्रहृष्टैस्तैश्चौरैरालोकि सर्वतः / परं कश्चिद् न चाऽऽलोकि तादृग् द्रव्यसमाश्रयः // 116 // इत्युक्तप्रकारं निशम्य प्रहृष्टैः धनलाभाशयाद् मुदितैः तैस्तत्रत्यैः चौरैः सर्वतः चतुर्दिक्षु आलोकि दृष्टम् , परं किन्तु, तादृक् पक्षिकथनानुसारेण द्रव्यसमाश्रयः द्रव्यकोटिसहितः कश्चिस्कोऽपि न च नैवालोकि दृष्टः // 116 // अथ लोभानन्दमुक्तिमाह-दृष्टे इति दृष्टे सन्निहिते तस्मिन् कन्थाऽऽवृतकलेवरे / मलिम्लुचैविमुक्तेऽऽथ स खगः पुनरभ्यधात् // 117 // तस्मिन् लोभानन्दे सन्निहिते समीपमागते सति कन्थया आवृतः कलेवरः शरीरं यस्य तादृशे संन्यासिवेषे दृष्टे, अथ अत एव मलिम्लुचैश्चौरैः विमुक्ते सति खगः पक्षी पुनः अभ्यधात् जगौ // 117 // अथ पुनः पक्ष्युक्तिमाह-पता इति___एता युष्मासु पश्यत्सु ययुर्द्रविणकोटयः / श्रुत्वैवं चौरराजोऽपि तमानाय्य निरीक्षत // 118 // - युष्मासु चौरेषु पश्यत्सु सत्स्वेव एताः समायाताः द्रविणकोटयः कोटिपरिमितानि द्रव्याणि ययुः गताः एवमुक्तप्रकारं श्रुत्वा चौरराजः चौरेषु मुख्योऽपि तं कार्पटिकवेषं लोभानन्दमानाय्य ग्राहयित्वा निरक्षत चारु दृष्टवान् // 118 //