________________ आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / अथ तस्य तदन्वेषणमाह-स इति स निक्षिप्याऽभितो नौकाः सांयात्रिकमलोकत / तथाऽपि क्वाऽपि न प्रापि तत्कथाऽपि यथास्थिता // 109 // स कर्णधारः नौकाः यानान्यभितः सर्वतः सांयात्रिकं नाविकं निक्षिप्य मुक्त्वा प्रेरयित्वा वा आलोकत दृष्टवान्, तथापि यानस्य सर्वप्रदेशेषु अन्वेषणे कृतेऽपि क्वाऽपि यथास्थिता यथार्था तस्य गुणसागरस्य कथा वृत्तमपि न नैव प्रापि ज्ञाता // 109 / / अथ पुरप्राप्तिमाह-नुन्न इति- . नुन्नः पोतोऽथ तैर्भूयः-शोकाऽऽवेशविसंस्थुलैः / क्रमेण नगरं प्राप्य तदीशाय स चाऽर्पितः // 110 // अथ शोधनानन्तरम् भूयः पुनः शोकस्य पोतेशविरहजन्यस्य दुःखस्यावेशेनावेगेन विसंस्थुलः व्याकुलैः तैः कर्णधारादिभिः नुन्नः प्रेरितः, चालिल इत्यर्थः पोतो यानपात्रं क्रमेण नगरं प्राप्य. नीत्वा स च पोतः तदीशाय पोतेशाय, तत्पित्रादये इत्यर्थः अर्पितः समर्पितः // 110 // अथ लोभानन्दस्य स्वपुरगमनमाह-तेनेति तेनोचितं धनं दत्त्वा लोभानन्दो विसर्जितः / उपात्तरत्नसंभारः पुरं प्रत्यचलद् निजम् // 111 / / तेन पोतेशेनोचितं मृतकोचितं धनं भाटकं दत्त्वा विसर्जितः गृहगमनायाज्ञप्तः लोभानन्दः उपात्तः गृहीतः रत्नसंभारः पोतेशन्यस्तरत्नराशियेन स तादृशः सन् निजं पुरं प्रत्यचलत् // 111 // .' भथ युग्मेन तस्य वेषपरिवर्तेन गमनमाह-मामिति मां समुद्धतनेपथ्यं पथि दृष्दैव तस्कराः / रत्नान्याशु ग्रहीष्यन्ति निग्रहीष्यन्ति चाऽसिना // 112 // इदं संभाव्य तान्येव स्मृत्वा रत्नानि कन्धया / स कार्पटिकवेषेणाऽध्वनि प्रास्थित सुस्थितः // 113 // पथि मां लोभानन्दं समुद्रतं साडम्बरं नेपथ्यं वेषो यस्य तादृशं धनितवेषं दृष्ट्वा एव तस्कराश्चौराः आशु रत्नानि ग्रहीष्यन्ति आच्छेत्स्यन्ति असिना खड्गन निग्रहीष्यन्ति हनिष्यन्ति च इदमुक्तप्रकारं संभाव्य विचिन्त्य तानि गृहीतानि रत्नानि कन्थया स्यूत्वा कन्थया अन्तः कृत्वा कन्थामुपरि सन्धाय च सुस्थितः निश्चिन्तः सन् स लोभानन्दः कार्पटिकवेषेण संन्यासिवेपेण अध्वनि प्रास्थित ययौ // 112 // 113 //