________________ .234 श्रीशान्तिनाथमहाकाव्यम् सप्तदशः सर्गः / ____ अथ पोतस्थमनवृत्तमाह-याने इति याने याते ततो दूरं जजागार कथञ्चन / कोऽप्यदृष्ट्वा च पोतेशं वज्राहत इवाऽभवत् // 104 // ततः पोतेशक्षेपस्थानात् दूरं याने पोते याते गते सति जजागार पोतस्थो जनः कथचित् गतनिद्रोऽभवत्, तथा, कोऽपि पोतेशं गुणसागरमदृष्ट्वा च बज्राहत इव वज्रणाहत इव गतसंज्ञ इवाभवत् // 104 // तदनु यानस्तम्भनमाह-तत इति ततः स लब्धचैतन्यो बोधयित्वाऽपरानपि / __ कर्णधारकमाचख्यौ यानं स्खलय भोः ! मनाक् // 105 // ततोऽनन्तरं / स हतोत्तरः लब्धसंज्ञः स्वस्थः सन् अपरान् पोतस्थान निर्यामकादीनपि बोधयित्वा जागरयित्वा कर्णधारकं नाविकम् "कर्णधारस्तु नाविक" इत्यामरः आचरयौ. किमित्याह भोः यानं पोतं मनागीषत् स्खलय गतिशिथिलं कुरु. स्तम्भयेत्यर्थः // 105 // . अथ तयोरुक्तिप्रत्युक्ति युग्मेम माह-किमिति-- किमर्थमिति तेनोक्ते तैरूचे प्रेक्ष्यते प्रभुः। स माह कायचिन्तायै यदा स प्रभुरुत्थितः // 16 // योजनानां शतं यानं तत्क्षणात् समुपागमत् / कायचिन्तोत्तरं तस्य स्वरूपं वेद न स्वयम् // 107 / / किमर्थ कस्मै प्रयोजनाय यानस्तम्भनं कथयसीतीत्थं तेन कर्णधारेण उक्ते पृष्टे सति तैः लोभानन्दप्रभृतिभिरूचे कथितम् , किमित्याह प्रभुः प्रेक्ष्यतेऽवलोक्यते क्वाऽस्तीति मृग्यते इत्यर्थः स कर्णधारः प्राह, किमित्याह यदा स प्रभुः पोतेशो गुणसागरः कायचिन्तायै उत्थितः गतनिद्र उदस्थात् तत्क्षणाद् ततः आरभ्य यानं योजनानां शतं शतयोजनं यावत् समुपाग़मत् , किन्तु; कायचिन्तोत्तरम् कायचिन्तायाः पश्चात् कश्चन कोऽपि तस्य पोतेशस्य स्वरूपं न वेद न दृष्टवानित्ययः // 106 // // 107 // युग्मम् युष्माकमिति युष्माकमुपरोधेन तं पश्यामि तथाऽपि हि / इत्युक्त्वाऽस्खलयद् यानं सकर्णः कर्णधारकः // 108 // युष्माकं भवतामुपरोधेनाग्रहेण तथापि याने दूरमागतेऽपि हि निश्चयेन तं पोतेशं पश्यामि मार्गयाभि, इतीत्थमुक्त्वा सकर्णः मतिमान् कर्णधारकः यानमस्खलयत् भस्थापयत् . गतिशून्यं कृतवानित्यर्थः / / 108 //