________________ wwwwwwwwwwwwwwwwwwwwwwww आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / 233 - परेषामन्येषामर्थानां धनानां वनितानां स्त्रीणाञ्चालोके दर्शने सति येषां जनानां न गृहयालुता ग्रहणाभिलाषः ये परेषां धनानि स्त्रियश्च नेच्छन्ति, ते तादृशाः जिना वीतरागाः जगत्यां पुंरूपेण पुरुषरूपेण किं दुर्लभा नैव, अपि तु तादृशा वीतरागा जना दुर्लभा एवेत्यर्थः // 99 / / अथ तस्य धनगोपनमाह-पवमिति एवं विमृश्य पोतेशो महारत्नानि कानिचित् / निर्यामकजनादीनां स प्रच्छन्नमतिष्ठिपत् // 10 // एवमुक्तप्रकारेण विमृश्य स पोतेशः गुणसागरः कानिचित् कियन्ति महारत्नानि बहुमूल्य वन्ति रत्नानि निर्यामकजनादीनाम् पोतवाहपुरुषादीनां प्रच्छन्नमज्ञातं यथा स्यात्तथा अतिष्ठिपत् स्थापयामास, यथा निर्यामकादयो न जानन्ति, तथा रक्षितवानित्यर्थः // 10 // अथ लोभानन्दस्य तदपहारेच्छामाह-तटस्थ इति तटस्थो लोभनन्दोऽन्तर्षीयमानानि तान्यपि / ददर्श दर्शनीयानि तानि चाऽऽदातुमैहत // 101 // तटस्थः- उदासीनवत्स्थितः, समीपस्थो वा लोभानन्दः दर्शनीयानि उत्तमानि अन्तर्धीयमानानि गोप्यमानानि अपि तानि महामूल्यानि रत्नानि ददर्श, तानि महारत्नानि आदातुमपहर्तुं च ऐहतैच्छत् // 101 // ___ अथ तस्य पोतेशवधेच्छामाह-पोतेशे इति पोतेशे सावधानेऽस्मिस्तानि लातुमशक्नुवन् / तं मारयितुमैच्छत् स लोभः किं न करोति वा // 102 // अस्मिन् पोतेशे गुणसागरे सावधाने रत्नानि कोऽपि मा ग्रहीदिति सतर्के सति स लोभानन्दः लातुं रत्नानि ग्रहीतुमशक्नुवन् असमर्थः सन् तं गुणसागरं मारयितुमैच्छत्, ननु एतदनुचितमिति चेत्तत्राह- वा यतः लोभः परद्रव्यादीच्छा किं न करोति ! अपि तु सर्वमेव द्रव्यार्थ परवधाद्यपि जनयतीत्यर्थः // 102 // अथ तत्कृतपोतेशसमुद्रक्षेपमाह-अन्येद्युरिति अन्येधुरुत्थितं देहचिन्तया व्याकुलं निशि / सांयात्रिकं निचिक्षेप सोऽब्धौ छिद्रं विमार्गयन् // 103 // अन्येधुरेकदा / निशि रात्रौ देहचिन्तया पुरीषाद्युत्सर्गार्थमुत्थितं व्याकुलं वेगाधिक्यास्कृतत्वरं सांयात्रिकं पोतेशं गुणसागरम् छिद्रं तद्वधावसररूपम् प्रमादस्थानं विमार्गयन् शोधयन् स लोभानन्दः अब्धौ समुद्रे निचिक्षेपापातयत् // 103 // शा० 30