________________ 232 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / अथ गुणसागरस्य तोषमाह-सुवातेति सुवातप्रेरितं तच्च रत्नद्वीपं रयादयात् / श्रुताधिकायसंश्रुत्या तुतोष गुणसागरः // 15 // तत्पोतं च सुवातेन अनुकूलपवनेन प्रेरितं सद् रयाद्वेगतः रत्नद्वीपं तदाख्यं द्वीपमयात्प्राप गुणसागरः श्रुतं पुरा कर्णगोचरीकृतम् 'श्रवणमिति यावत्' अपेक्ष्यापि अधिकस्य आयस्य लाभस्य संश्रुत्या प्राप्त्या कृत्वा तुतोष प्रीतोऽभूत् // 95 // अथ तस्य भूपकृतशुल्कार्धमुक्तिमाह-उपदेति-- उपदाऽऽलोकमात्रेण भूपतिस्तुष्टमानसः / शुल्काधैं व्यमुचत् तस्य संयात्रिकशिरोमणेः // 96 // सांयात्रिकशिरोमणेः पोतवाहमुख्यस्य तस्य गुणसागरस्य “उपायनमुपग्राहयमुपहारस्तथोपदा" इत्यमरोक्तेः उपदानाम् उपायनानामालोकमात्रेण दर्शनत एव, उपदानामपूर्वत्वादिति भावः, तुष्टमानसः प्रसन्नः भूपतिः रत्नद्वीपेशः शुल्कार्धम् राजग्राहयभागाध व्यमुचत् नाग्रहीदित्यर्थः // 96 // अथ तस्य स्वपुरप्रस्थानमाह-विक्रीतेति विक्रताऽऽनीतपण्यः स प्रतिपण्यकृतग्रहः / . वाहनं वाहनस्वामी प्रेरयत् स्वपुरं प्रति // 97 // प्रतिपण्यं पण्ये पण्ये कृतः ग्रहः ग्रहणं, आशय इत्यर्थः, येन स तादृशः प्रतिपण्यं वस्तुमुल्यादि ज्ञात्वेत्यर्थः / पूर्व विक्रीतं पश्चादन्यदानीतं पण्यं व्यवहर्त्तव्यं वस्तु येन स तादृशः सन् विक्रीतानि पण्यः विक्रेयं पणितव्यं च पण्यं' इत्यमरः / स गुणसागरः वाहनस्वामी पोतेशः वाहनं पोतं स्वपुरम्प्रति स्वपुरगमनाय प्रेरयत् अचालयत् // 97 // अथ धनरक्षणचिन्तामाह-महेति महामुल्येषु रत्नेषु परैदृष्टेषु कहिचित् / / भविष्यति ममाऽपायो यज्जनोऽत्यर्थसस्पृहः // 98 // महामूल्येषु अतिमूल्यवत्सु रत्नेषु कर्हि चित् कदाचित्परैश्चौरादिभिः दृष्टेषु सत्सु मम अपायोऽनर्थः, तादृशरत्नापहारादिरूपः भविष्यति, तत्र हेतुकथनेन तत्समर्थयति यद्यतः जनः अन्यस्यार्थेषु धनेषु सस्पृहः स्पृहायुक्तो ग्रहणे कृताभिलाषो भवतीत्यर्थः // 98 // निःस्पृहस्य दौर्लभ्यमाह-परार्थेति परार्थवनिताऽऽलोके येषां न गृहयालुता / पुंरूपेण जगत्यां ते जिनाः किं नैव दुर्लभाः // 19 //