________________ 231 या० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयतम् ननु देशान्तरागमने कथं द्रव्यलाभ इति चेत्तत्राह-अत्रेति ---- अत्र स्थितोऽपि तद् द्रव्यं वाणिज्यैः समुषाय / कारयन दर्शनानन्दमावर्जय मनांसि नौ // 90 // तदावयोर्विम्हासहनाद्धेतोः अत्र स्थितोऽपि स्थित एव वाणिव्यैः व्यवहारैः द्रव्यं समुपार्जय, तथा, दर्शनानन्दं स्वदर्शनजन्यमानन्दं कारयन प्रयच्छन् नौ आवयोस्स्त्वन्मातापित्रोः मनांस्यावर्जय रञ्जय // 90 // अथ तस्य प्रस्थानमाह-इत्यमिति इत्थं ताभ्यां निषिद्धोऽप्यनिवेद्य चलितोऽथ सः / गम्भीरसिन्धुरोधःस्थं गम्भीरपुरमासदत् // 91 // अथान्तरम् , इत्थमुक्तप्रकारेण ताभ्यां मातापितृभ्यां निषिद्धो निवारितोऽपि स लोभानन्दः अनिवेद्य मातापित्रोरनुक्त्वैव चलितः प्रस्थितः सन् गम्भीरस्य सिन्धोः नद्याः सागरस्य वा रोधःस्थं तटस्थं गम्भीरपुरं तदाख्यं नगरमासद प्राप्तवान् // 91 // अथ तस्य पुरभ्रमणमाह-भ्राममिति भ्रामं भ्रामं पुरीतः स सांयात्रिकगृहं गतः / तत्र सज्जीकृतं पोतं समालोक्य मुदं दधौ // 12 // स लोभानन्दः इतोऽस्यां पुरि भ्रामं भ्रामम् भ्रान्त्वा भ्रान्त्वा सांयात्रिकस्य पोतवाहस्य "सांयात्रिकाः पोतवाहा" इत्यमरः / गतः प्राप्तः सन् तत्र सांयात्रिकगृहे पोतं वाहनं सज्जीकृतं समालोक्य मुदं हर्ष दधौ, तस्य प्रस्थानानुगुणत्वादिति भावः // 12 // अथ तस्य ततः प्रस्थानमाह-पोतमिति पोतं सोऽपि समारुह्य भृत्यभावमधिष्ठितः / गुणसागरपोतेशवणिजा सह चेलिवान् // 93 // गुणसागरेण तदाख्येन पोतेशेन वणिजा सह लोभानन्दोऽपि भृत्यभावं किंकर्यमधितिष्ठतः सन् किङ्करो भूत्वेत्यर्थः, पोतं समाह्य चेलिवान् प्रस्थितवान् // 93 // अथापरिचितविश्वासकर्तृप्रशंसामाह-कुर्वन्ताति कुर्वन्त्यसंस्तुतस्याऽपि विश्वासं येऽविकत्थनाः / विशुद्धचेतसः सन्तः प्रशस्यन्ते न ते कथम् ! // 14 // येऽविकत्थना अनात्मश्लाधिनः असंस्तुतस्य अपरिचितस्यापि विश्वासं कुर्वति, ते तादृशाः विशुद्धचेतसः निर्मलान्तःकरणाः सन्तः सज्जनाः कथं न प्रशस्यन्ते ! अपि तु प्रशस्यन्त एवेत्यर्थः // 94 //