________________ 230 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः / ___किं वा अथवा कुतश्चन कथमपि कुतोऽपि वा कल्यं लावा आनीय विवरे बिले “विवरं बिल"मित्यमरः / पाताले इति भावः, विशामि, तत्र धनाधिक्याल्लाभसौकर्यादिति भावः / किमथवा धातुवादिनः स्वर्णादिधातुशोधकान् सेवे भेजे, येन कृत्वा मे मम धनोच्चयः धनराशिः प्राप्तः स्यात् , धातुशोधका हि ताम्रादि स्वर्णतया परिणमन्ति, ततस्तथाकरणेन तत्सम्भव इति भावः // 85 // न च कालविलम्बो युक्त इत्याह-तारुण्ये इति तारुण्ये प्रबले येन द्रव्यं न समुपार्जितम् / वार्धके स कथङ्कारं मुखमाप्स्यति मन्दधीः ? // 86 // प्रबले प्रकृष्ट बलवति, धनोपार्जनसहे इत्यर्थः तारुण्ये यौवने येन द्रव्यं न समुपार्जितम् , स तादृशः मन्दधीः द्रव्याभावात् कुवीः वार्धके वृद्धावस्थायां सुखं कथङ्कारं केन प्रकारेणाप्स्यति ! नाप्स्यत्येवेत्यर्थः, वार्धक्यस्य धनोपार्जनाननुगुणत्वात् , तत्र शक्तिक्षयादिति भावः // 86 // तस्य द्रव्योपार्जननिश्चयमाह-दोषा इति दोषा गुणा विधीयन्ते पुंसां द्रव्ये सति स्फुटम् / यतिष्ये सर्वथा तस्माद् नव्यं द्रव्यमुपार्जितुम् // 87 // पुंसां दोषाः द्रव्ये सति स्फुटं व्यक्तमेव गुणा विधीयन्ते क्रियन्ते, धनं दोषानपि गुणान् कल्पयतीत्यर्थः, तस्माद्धेतोः नव्यमितरविलक्षणं द्रव्यमुपार्जितुं सर्वथा सम्भवता सर्वेण प्रकारेण कृत्वा यतिष्ये, अहं लोभानन्द इति शेषः // 87 // अथ तस्य पितृविज्ञप्तिमाह-इतीति इति संचिन्त्य चित्तान्तः पित्रोराकूतमात्मनः / __ सोऽशंसत् पुत्रवात्सल्यात् तौ पोचतुरिदं हितम् // 88 // . इति पूर्वोक्तप्रकारं चित्तान्तः मनसि सञ्चिन्त्य विचार्य स लोभानन्दः पित्रोः मातापित्रोः आत्मनः स्वस्य आकूतमाशयमशंसदकथयत् , पुत्रवात्सल्यात्पुत्रप्रेम्णा तौ मातापितरौ हितं शुभकारि इदं वक्ष्यमाणं प्रोचतुः // 88 // अथ तदुक्तिमेवाह-आवयोरिति आवयोस्तनुजन्मा त्वं खङ्गिशृङ्गमिवैककः / अतस्त्वद्विरहं सोढुं नैव वत्स ! क्षमावहे // 89 // आवयोः दम्पत्योः त्वम् तनुजन्मा पुत्रः एककः एक एव खङ्गिशृङ्गमिव खड्गी गण्डकः "गंडके खड्गखड्गिनौ" इत्यमरः / तस्य शृङ्गम् नासिकोपरिस्थं शृंगमिव, तस्यैकत्वादिति भावः, अतः वत्स ! त्वद्विरहं सोढुं नैव क्षमावहे समर्थौ भवतः // 89 //