________________ 229 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् अर्थ तस्य शृगाली भवमाह-हडक्के ति हडक्कमरुता मृत्वा शृगाली साऽभवत् ततः / पुना रत्नप्रभेलायां नारकः स्वायुषः क्षये // 81 // सा शुनी हडक्कमरुता लोके हड़कवा इति ख्यातेन रोगेण मृत्वा शृगाली अभवत ततः पुनः शृगाली भवान्तरम् स्वायुषः क्षये रत्नप्रभेलायां रत्नप्रभाख्यनरके नारकः, जात इति शेषः // 81 // अथ तस्य पुनर्वणिग्भवमाह-तस्मादिति तस्मादुनृत्य संजज्ञे नगरे गिरिवर्धने / वामात्राख्यवणिग्भार्याऽनुद्धरी तनयोऽथ सः // 82 // तस्मान्नरकादुवृत्य निर्गत्य अथानन्तरम् स मायादेवजीवः गिरिवर्धने नगरे वामात्रात्यस्य वाणिजः भार्यायाः अनुद्वर्याः तदाख्यायाः तनयः संजज्ञे जातः // 82 // अथ तस्य नामाद्याह-लोमेति लोभनन्दाभिधानोऽयं प्रधानो दोषसंग्रहे / अभूल्लोभमयो नूनं वार्धिर्वारिमयो यथा // 83 // अयं मायादेवजीवः लोभनन्दाभिधानः दोषस्य दुर्वृत्तजन्यस्य सङ्ग्रहे प्रधानः प्राधान्यवान् , मुख्यतो दोषस्यैव सङ्ग्राहक इत्यर्थः / नूनम् बाहुल्येन निश्चयेन वा लोभमयोऽतिलोभी, नामानुकूलगुणवानिति यावत् , अभूत् , नामानुकूलगुणसत्त्वमूलकमेवोपमामाह-यथा-वार्धिः समुद्रः वारीणि धीयन्तेऽस्मिन्निति व्युत्पत्त्यनुकूलम् वारिमयः जलमयः वार्धियथा जलाकरस्तथा लोभानन्दो लोभाकर इत्यर्थः // 83 // अथ तस्य धनोपार्जनचिन्तामाह-यानपात्रमिति यानपात्रं समारुह्य स्वर्णद्वीपं भजामि किम् ? यदि वा रोहणं यामि रत्नसन्दोहरोहणम् ? // 84 // किमिति वितर्के, यानपात्रं पोतं समारुह्य स्वर्णद्वीपं भजामि ? तत्र नामानुकूलधनलाभसम्भवादिति भावः, यदि वा अथ वा, रत्नसन्दोहस्य रत्नसमूहस्य रोहणं जनकं रोहणं तदाख्यं पर्वतं यामि ! तस्य रत्नजनकतया तत्र रत्नलाभस्य सुकरत्वादिति भावः / / 84 // तस्य वितर्कान्तरमाह-विशामीति विशामि विवरे किंवा कल्यं लात्वा कुतश्चन ? किं धातुवादिनः सेवे येन स्याद् मे धनोच्चयः ? // 85 //