________________ 228 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः तद्विलापमेवाह-हादेवेति - हा देव मयका किं तेऽपराद्धं पूर्वजन्मनि / यद् मया निहितं द्रव्यमन्येन ग्राहितं त्वया // 76 // हा देव ! पूर्वजन्मनि ते तव मया किमपराद्धनयुक्तमाचरितम् ! ययेन हेतुना त्वया दैवेन का मया मायादेवेन निहितं न्यासीकृतं द्रव्यं धनमन्येन ग्राहितम् , हारितम् , अज्ञातापराधस्य दण्डो नोचित इति भावः // 76 / / अथ स्वदोषमेवाह-मुक्त्वेति मुक्त्वा सम बहिासि योगक्षेमाय यद् मया / दैवेनाऽपहृतं तद् मे पूत्कुर्वे कस्य वा पुरः ? // 77 // मया मायादेवेन योगक्षेमाय यद्यतः सम मुक्त्वा गृहं त्यक्त्वा बहिः अरक्षितप्रदेशे न्यासि धनं निखातम् तत्तत एव हेतोः मे मम द्रव्यमिति शेषः, देवेन हेतुभूतेन अपहृतम्, वा ततः, कस्य पुरोऽग्रे पूत्कुर्वे रक्षणार्थमाह्वये, न कस्यापीत्यर्थः, गृहं त्यक्त्वा बहिर्निखनने स्वस्यैव दोषः इति नान्यो वचनीय इति भावः // 77 // अथ तस्य गृहागमनमाह-इत्यादीति इत्यादि रचयन्नेष विलापं छद्मतः कुधीः। संबोध्य सोमदेवेन संबोध्य गृहमापितः // 78 // कुधीः दुष्टधीः एष मायादेवः छमतः कपटतः इत्यादि उक्तप्रकारं विलापं परिदेवनं रचयन् कुर्वन् सोमदेवेन संबोध्य संबोधनपूर्वकं संबोध्य बोधयित्वा गृहमापितः नीतः // 78 // अथ तस्य गर्दभभवमाह-जन्मेति-- जन्माऽऽरभ्य स विश्वेषां वञ्चकः स्वस्य वञ्चकः / . विपद्य स्कन्दरजकनिलये खर्याजायत // 79 // स वश्चकः दम्भी मायादेवः जन्मारभ्य जन्मत एवारभ्य विश्वेषां सर्वेषां स्वस्य धनस्य वञ्चकः छलद्वारापहारकः विपद्य मृत्वा स्कन्दस्य तदाख्यस्य रजकस्य वस्त्रधावकस्य निलये गृहे खरी भूत्वा अजायत जन्म ललौ // 79 // अथ तस्य सूनीभवमाह-आयुरिति आयुः संक्षिप्य तत्राऽपि भारोद्वहनकर्मणा / सा शुनी समभूदु मातुः स्तन्यं लेभे च किञ्चन // 8 // तत्र गर्दभभवेऽपि भारोद्वहनकर्मणा। आयुः संक्षिप्य समाप्य सा गर्दभी मायादेवजीवः शुनी सरमा “सरमा शुनी" इति हैमः समभूत् जाता किञ्चन मातुः स्तन्यं स्तनोद्भवदुग्धं च लेभे // 8 //