________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 227 उपेत्य गत्वा, महाभाग ! मित्र ! भाग्येन दैवानुकूल्यतः तद्धनं निरीक्ष्यते, विलोकनीयमित्यर्थः भाग्यं स्यात्तदैव मिलेदन्यथा त्वपहृतमेव स्यात्केनचिदिति भावः ननु भाग्यमस्ति, ततोऽर्थोऽपि स्यादेव इति तयोक्तो वितर्कोऽस्थाने इतिचेत्तत्राह-हि यतः महान्तः धीमन्तपुण्यार्थयोः भाग्यवित्तयोः किञ्चि भेदं प्रचक्षते, साध्यसाधनभावादिति भावः एवञ्च न भाग्यसत्त्वे धनसत्त्वमावश्यकमिति तद्रष्टव्यमिति भावः // 70 / 71 // अथ तयोस्तत्र गमनमाह-प्रतिपद्येति प्रतिपद्य वचस्तस्य सोमः सोममुखद्युतिः / समं तेनैव तत्रैव गतवान् गतकैतवः // 72 // सोममुखद्युतिः सोमः चन्द्रः स इव मुखद्युतिः मुखकान्तिर्यस्य स तादृशः सोमः सोमदेवः तस्य मायादेवस्य वचः प्रतिपद्य स्वीकृत्य गतकैतवः निश्छलः सन् तेन मायादेवेन समं सहैव तत्र निधानदेशे गतवान् // 72 // अथ मायादेवस्य मायामाह-रिक्तमिति - रिक्तं तत् स्थानमालोक्य मायादेवी विषादवान् / लुठति स्म महीपीठे मुमूर्षुरिव सत्वरम् // 73 // तन्निधानभूमिरूपं स्थानं रिक्तं निधानशून्यमालोक्य विषादवान् दुःखितः मायादेवः सत्वरं मुमूर्षुरिव महीपीठे लुठति स्म अन्येन धनमपहृतमिति स्वस्य सातिशयदुःखाभिनयं कुर्वन् मुमूर्षुरिव मह्यामालोटनेनाभावादित्यर्थः // 73 // अथ तस्य विषादाभिनयान्तरमाह-मूर्छामिति-- मूर्छामतुच्छामानछे सन्निपातिकवत् किल / हा धात्रा वञ्चितोऽस्मीति ताडयमान इवाऽऽरटत् // 74 // किलेल्यलीके एतत्सर्व मूर्छादि तस्य कपटकृतमेवे-ति भावः सन्निपातिकवत् सन्निपातरोगग्रस्तवदतुच्छां सातिशयां मूच्छी मोहमानछे प्राप हा इति खेदातिशये धात्रा भाग्येन वञ्चितः छलितोऽस्मीति वदन् ताड्यमानः राजपुरुषादिभिः दण्डादिभिः कृत्वा निहन्यमान इवारटत् आक्रन्दनं चकार // 74 // भथ तस्य वक्षस्ताडनमाह-वक्ष इति वक्षोऽपि ताडयामास मृतापत्य इवाऽधिकम् / मनाक संप्राप्तचैतन्यो विललाप स बालिशः // 74 // मृतमपत्यं यस्य स इव वक्ष उरोऽपि अधिकं सातिशयं यथा स्यात्तथा ताडयामास निजघान, इष्टे मृते जना वक्षस्ताडयन्तीति लोकव्यवहार इति भावः नथा, स बालिशो मूवः मनाक् संप्राप्तचैतन्यः स्वस्थः सन् विललाप // 75 / /