________________ 226 श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः मित्र ! प्राणिनाम् आकस्मिकी निष्कारणमतर्कितमेव विपत् उपजायते समापतति, तत्तस्माद्धेतोः योगक्षेमाय अलब्धलाभाय लब्धरक्षणाय च कापि गुप्तस्थाने किश्चद् द्रव्यं निधीयते न्यासरूपेण स्थाप्यते, "आपदर्थे धनं रक्षेदि" त्युक्तेरिति भावः // 66 // तदेवाह-आपदर्थ-इति आपदर्थे धनं रक्षेदिति नीतावपि स्मृतम् / सत्यं विधीयते येन, महान्तः शास्त्रवम॑गाः // 67 / / आपदर्थे आपदि प्रयोजनाय धनं रक्षेत्स्थापयेदितीत्थं नीतौ अपि स्मृतम् , तत्सत्यम् तथाचरणेन सत्यं विधीयते क्रियते, येन यतः महान्तः बुद्धिमन्तः शास्त्रवम॑गाः शास्त्रोक्तमार्गानुसारिणः भवन्तीति शेषः नीत्यनुसरणं महत्त्वमिति भावः // 67 // अथ तयोर्धनन्यासमाह-युक्तमिति युक्तमित्युदिते तेन ग्रामपर्यन्तमेत्य तौ। समन्ततः समालोक्य न्यधत्तां स्वयं निजं निजम् // 68 // तेन सोमदेवेन युक्तमेव मेतदित्युक्ते कथिते सति तौ मायादेवसोमदेवौ ग्रामपर्यन्तं ग्रामसीमानमेत्य गत्वा समन्ततः सर्वदिक्षु समालोक्य दृष्ट्वा, यथाऽन्यो न पश्येदिति भावः निजं निजं वं धनम् "स्वो ज्ञातावात्मनि धने स्वमि" त्यमरः। न्यधत्तां निखनतः स्म, पृथिव्यां निखातवन्तावित्यर्थः // 68 // अथ मायादेवस्य तन्निधानद्वयानयनमाह-प्रच्छन्नमिति- . प्रच्छन्नमन्यदैकाकी गत्वा नन्दनभूनिशि। . निधिद्वयं तदुत्खन्य स्वयं स्वगृहमानयत् // 69 // अन्यदैकदा नन्दनभूः मायादेवः स्वयमात्मनैव प्रच्छन्नं गुप्तं यथा स्यात्तथा एकाकी एक एव अन्यथा तु रहस्यभङ्गभयमिति भाव; निशि रजन्यां गत्वा, निधानभूमाविति शेषः तत्पुरानिखातं निधिद्वयम् स्वस्य सोमदेवस्य च निधानद्वयमुत्खन्य भूमेरुद्धृत्य स्वगृहमानयत् // 69 // अथ मायादेवजिज्ञासां युग्मेनाह-कियत्यपीति कियत्यपि गते काले सोमस्तेनाऽभ्यधाय्यथ / तद वित्तं नौ तथैवाऽस्ति किं वाऽऽत्तं केनचित् सखे ? // 7 // इत्युपेत्य महाभाग ! तद् भाग्येन निरीक्ष्यते। पुण्यार्थयोर्महान्तौ हि भेदं किश्चित् प्रचक्षते // 71 // अथानन्तरम् कियत्यपि कतिमात्रे काले गते व्यतीते सति सोमः सोमदेवः तेन मायादेवेन अभ्यधायि कथितः किमित्याह-सखे ! तत्पुरा न्यासीकृतं नौ आवयोः वित्तं धनम् किमिति प्रश्ने, तथैव यथा निखातमेवास्ति, वा अथवा केनचिदात्तं गृहीतम् ? इत्युक्तप्रकारकसंशयाद्धेतोः