SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ आ० श्राविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 225 अथ तस्य पुनर्भवं युग्मेनाह विपति विपद्य भरतक्षेत्रे शालिग्रामे मनोरमे / नन्दनश्रेष्ठिनो भार्या सुनन्दाकुक्षिसम्भवः // 61 // नन्दनः समभूद् नाम्ना मायादेव इति श्रुतः / मायैव दूषणं तस्य क्षारता जलधेरिव // 62 // * विपद्य मृत्वा भरतक्षेत्रे मनोरमे शालिग्रामे तदाख्यग्रामे नन्दनस्य तदाख्यस्य श्रेष्ठिनः भार्यायाः सुनन्दनायाः तदाख्यायाः कुक्षिसंभवः गर्भजन्मा नन्दनः पुत्रः नाम्ना मायादेव इतीत्थं श्रुतः ख्यातः समभूदु जातः, तस्य मायादेवस्य माया कपटमेव जलधेः क्षारता इव दूषणम् , अभूदिति शेषः // 61 // 62 // अथ तस्य परिणयमाह-वणिगिति वणिग्देवप्रसादस्य भार्यादेवमतीसुताम् / यौवने नन्दिनीं नाम स पित्रा परिणायितः // 63 // वणिजः देवप्रसादस्य तदाख्यस्य भार्यायाः देवमत्याः तदाख्यायाः सुताम् नन्दिनीम् नाम नाम्ना नन्दिनीं स मायादेवः यौवने पित्रा नन्दनेन परिणायितः परिणयं प्रापितः // 63 // अथ तस्य लोकवञ्चनमाह-पितरिति-- पितयुपरते हट्टे निषीदन्नेष नित्यशः / समग्रं वञ्चयामास लोकं बालाऽबलादिकम् // 64 // पितरि नन्दने उपरते मृते सति एष मायादेवः हट्टे पण्यवीथिकायां निषीदन् विक्रयार्थमुपविशन् नित्यशो नित्यमेव बालाबलादिकम् बालकयोषिकादिकम् , क्रयकर्मानभिज्ञमित्यर्थः समग्रं सर्व लोकं वञ्चयामास कूटविक्रयतोलनादिना प्रतारयति स्म // 64 // / अथ तस्य मित्रवृत्तान्तमाह-सरल इति सरलः सोमदेवोऽस्य वयस्यः समभूद् वणिक् / अन्यदा मायिना तेन रहस्येवमवादि सः // 65 // अस्य मायादेवस्य सरलः ऋजुमतिः वणिक् सोमदेवः तदाख्यः, वयस्यः सुहृत्समभूत् , अन्यदा एकदा तेन मायिना कपटिना तेन मायादेवेन स सोमदेवः एवं वक्ष्यमाणप्रकारं रहसि एकान्ते अवादि उक्तः // 65 // तदुक्तिमेवाह-आकस्मिकीति आकस्मिकी विपद् मित्र? पाणिनामुपजायते / योगक्षेमाय तत् काऽपि द्रव्यं किञ्चद निधीयते // 66 // 'शा० 29
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy