________________ 224 श्रीशान्तिनाथमहाकाव्यम् षोडशः सर्गः। ___ तस्म सिंहध्वजस्म सम्मुखम् अभिमानेन स्वबलाभिमानेन स पोत्री शूकरोऽपि रणावन्मां रणभूमौ बन्दिना स्तुतिपाठकेन विवर्णितः स्तुतः महाशूर इन चलितः प्रस्थितः // 56 // मथ तस्य मरणाचाह-एकेनेति एकेन शल्यघातेन तेन व्यापादितोऽथ सः। मृत्वा तत्रैव संजज्ञे इस्ती शैल इवापरः // 57 // अथ सन्मुखागमनानन्तरम् / स शूकरः तेन सिंहध्वजेन एकेन शल्यस्य नाणाग्रस्य मातेन प्रहारेण कृत्वा व्यापादितः मारितः मृत्वा च, तत्र अञ्जनाख्ये एव शैले पर्वते अपरः शैल इव महाशयः हस्ती संजज्ञे जातः // 57 // अथ तस्य जीवनवृत्तिमाह-करिणीभिरिति करिणीभिः समं स्वैरं रममाणः स यौवने / समयं गमयन् प्राप दशां षष्ठीमयं द्विपः // 58 // सोऽयं द्विपः हस्ती यौवने करिणीभिः हस्तिनीभिः समं स्वैरं यथेच्छं रममाणः समयं गमयन् कालयापनं कुर्वन् षष्ठी दशां प्राप वार्धक्यं प्रापेत्यर्थः // 58 // अथ तस्य पल्वलप्रवेशमाह-एषेति एषग्रीष्मेऽन्यदा भीष्मे वर्धमानमहातपे। तृषाशुष्यद्गलोऽविक्षत् पल्वले जलधीतये // 59 // अन्यदैकदा एष हस्ती वर्धमानः महान् आतपः खरकरः यस्मिन् तस्मिन् वर्धमानमहातपे आतपातिशायिनि, अत एव भीष्मे असह्यत्वादुःसहे ग्रीष्मे तदाख्यौं तृषया पिपासया शुष्यन् गलो यस्य स तादृशः पिपासाशुष्ककण्ठः सन् जलधीतये पयःपानाय पवले अल्पसरसि "वेशन्तः पल्वलं चाल्पसरः" इत्यमरः / अविक्षत् प्रविष्टवान् // 59 // अथ तत्र तस्य मृत्युमाह-मग्न इति मनो जम्बालजालान्तर्जले निर्गन्तुमक्षमः / पञ्चतां सप्तभिर्घौः प्राप मध्यस्थभावतः // 60 // जले पल्वलजले जम्बालजालान्तः पङ्कसमूहान्तः, “निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमा"वित्यमरः / मग्नः निमग्नः स हस्ती निर्गन्तुं पङ्कादुपरिगन्तुमक्षमोऽसमर्थः सन् सप्तभिः घनः दिवसैः कृत्वा मध्यस्थभावतः माध्यस्थ्यमनुभवन् पश्चतां प्राप ममार, एतेन तस्य मृत्युकाले शुभध्यानसम्पत्तिरुक्का // 60 //