________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 223 तन्नृपहननस्यालोकेनावलोकनेन कृत्वा धिक्कारं कुर्वाणान् निन्दयतः मण्डलेश्वरान् तत्समीपस्थनृपतीन् प्रतिहन्तुं धावन्नयं मानराजः तैः मण्डलेश्वरैः बलालपूर्वकं खड्गमाच्छिद्य गृहीत्वा बद्धः निगृहीतः // 51 // अथ मानराजस्य मरणमाह-रदैरिति रदैः स रसनां छित्वा मानी निधनितां गतः / नारको नरके षष्ठे समभूद् भूरिदुःखभृत् // 52 // मानी आत्माभिमानी स मानराजः रदैः स्वदन्तैः कृत्वा रसनां जिहां हित्वा निधनितां मरणं गतः मृत इत्यर्थः / तथा, षष्ठे नरके भूरिदुःखभृत् नारकः समभूत् अजायत // 52 // अथ तस्य पुनर्भवमाह-उदिति उद्वृत्तः स ततो जज्ञेऽन्जनशैले महाकिरिः / अजनाडेरिवाऽऽसङ्गात् श्यामश्यामवपुद्युतिः // 53 // स मानराजजीवस्ततः षष्ठनरकादुदत्तः आयुः प्रपूर्य निर्गतः सन् अञ्जने तदाख्ये शैले पर्वते अञ्जनाद्रः आसङ्गात् सम्पर्कादिव श्यामश्यामा अतिश्यामा वपुषो द्युतिः कान्तिर्यस्य स तादृशः अतिकालाकृतिः महाकिरिः महाशूकरः जज्ञे जातः // 53 // - अथ तस्य जीवनचर्यामाह-क्रोडीभिरिति क्रोडीभिः स च चिक्रीड तारुण्ये काननेऽभितः। मुस्तास्तम्बकदम्बानां खण्डैराहारमाचरन् // 54 // ___स मानराजजीवः शूकरः तारुण्ये युक्त्वप्राप्तौ सत्याम् कानने वनेऽभितः सर्वतः क्रोडीभिः शूकरभिः सह मुस्तानां नागरमुस्तानां मोथ इतिख्यातीनामिति यावत् , स्तम्बानां गुच्छानां कदम्बानामोघांनाम् खण्डैः छेदैः आहारमाचरन् आहारवृत्तिं पूरयन् चिक्रीड रेमे 54 // अथ तत्र नृपागमनमाह-नृसिंहेति नृसिंहविक्रमः सिंहध्वजो नाम महीपतिः / तमदिमाप पापद्धथै पापव्यसनलालसः // 55 // नृसिंह इव विक्रमो यस्य स तादृशः महापराक्रमी सिंहध्वजो नाममहीपतिः पापस्य व्यसने प्रसङ्गादाखेटाचरणे लालसः उत्कटेच्छः सन् पापर्यै मृगयायै “पापर्द्धिमृगयाऽऽखेटः" इति हैमः जीवहिंसार्थमित्यर्थः / तमञ्जनाख्यमदि' पर्वतमाप प्राप, आखेटार्थं तत्राययावित्यर्थः // 55 // : अथ तत्सम्मुखं शूकरागमनमाह-चलित इति चलितः संमुखं तस्याऽभिमानेन स पोयपि / महाशूरारणाऽवन्यां बन्दिनेव विवर्णितः // 56 //