________________ श्रीशान्तिनाथमहाकाव्यम्-षोडशः सर्गः / क्रोधोऽनुचित इत्यर्थः तत्र हेतुमाह-देव ! सतां साधुप्रशंसने सज्जनप्रशंसायाम् कृतायां सत्याम् मत्सरो द्वेषो न युक्तः // 46 // अथान्यमन्त्रिकृतोत्तरमाह-आक्रोशन्तमिति आक्रोशन्तं पुनमन्त्री सुबुद्धिस्तमथाऽभ्यधात् / निरूपिते स्वरूपे किं कुमार ! कुपितोऽभवः // 47 // अथ मृदु उत्तरितेऽपि पुनर्भूयोऽपि आक्रोशन्तमनिष्टं भाषमाणं तं मानराजं सुबुद्धिः तदाख्यः / मन्त्री अभ्यधाजगौ किमित्याह-कुमार ! स्वरूपे निरूपिते सज्जनस्वभावे प्रशंसिते किं कुतो हेतीः कुपितः अभवः नैतद्युक्तमित्यर्थः // 4 // भथ मानराजस्य क्रोधाधिक्यमाह-तस्येति तस्योदितमिदं श्रुत्वा भूपः स कुपितो भृशम् / मण्डला समाकृष्य मन्त्रिणं हन्तुमुत्थितः // 48 // तस्य सुबुद्धिमन्त्रिणं इदमुक्तप्रकारमुदितं कथितं श्रुत्वा स मानराजः भूयः पुनरपि भृशमत्यर्थ कुपितः सन् मण्डलायमसिं समाकृष्य कोशादुद्धृत्य मन्त्रिणं हन्तुम् उत्थितः आसनादुदतिष्ठत् // 48 // अथ नृपस्य तयोर्मध्येऽभिनिवेशमाह-क्रोधेति___ क्रोधदग्धविवेकोऽयममात्यं मा निहन्त्विति / - अविक्षदन्तरे राजा तन्निषेधनिबद्धधीः // 49 // - क्रोधेन कृत्वा दग्धः भ्रष्टः विवेकः सारासारविचारो यस्य स तादृशः अयं मानराजः अमात्यं मा निहन्तु इति हेतोः तस्य मानराजस्य निषेधे मन्त्रिहननव्यापारान्निवारणे निबद्धा' सोद्यमा धीर्बुद्धिर्यस्य स तादृशः मानराजनिवारणबुद्धयेत्यर्थः / राजा सोमनृपः अन्तरे - मानराजमन्त्रिणोर्मध्ये अविक्षदस्थात् // 49 // मथ मानराजकृतनृपवधमाह-क्रूरस्येति क्रूरस्य क्रूरकर्माऽयं पक्षं कक्षीकरोति यत् / . तेन राड मे निहन्तव्य इति ध्यात्वा स तं न्यहन् // 50 // अयं क्रूरकर्मा स्वानीहितत्वादनिष्टकियोऽथ नृपः यद्यतो हेतोः क्रूरस्य ममाप्रियवक्तुः मन्त्रिणः पक्षं कक्षीकरोति समर्थयति, तेन हेतुना मे मम राड् नृपः निहन्तव्यो वध्य इतीत्थं ध्यात्वा बिचार्य स मानराजः त सोमनृपं न्यहन् हतवान् // 50 // अथ मानराजस्य मण्डलेश्वरादिकृतबन्धनमाह-तदिति तदालाकेन धिक्कारं कुर्वाणान् मण्डलेश्वरान / हन्तुं धावन्नयं बद्धः खड्गमाच्छिद्य तैर्बलात् // 51 //