________________ ___ 221 221 आ० विजयदर्शनसूरीश्वरकृत-प्रबोधिनयुतम् अथ मानराजस्य तदवलोकनमाह-तस्या इति-- तस्या अनु समायातः पादपान्तरितोऽखिलम् / निशम्य तां न मानात् सोऽरक्षत् तस्मादपायतः // 42 // तस्याः स्वपन्न्या अनु पृष्ठतः समायातः स मानराजः पादपान्तरितः वृक्षान्तर्हितः मखिलं सर्व वृत्तं निशम्यापि मानादभिमानाद्धेतोः तां स्वपत्नी तस्मादुक्तप्रकाराद् अपायतः अनिष्टतः वापीपातरूपाद् नारक्षन्निवारितवान् // 42 // अथ नृपसभावृत्तमाह-भास्थानमिति-- अस्थानमास्थितेऽन्येद्यः क्षमापे वार्ताप्रसङ्गतः / भवादि सिंहसामन्तेनेदृशं वचनं स्वयम् // 43 // अन्येधुरेकदा मापे नृपे सोमाख्ये आस्थानं समामण्डपमास्थिते स्थिते सति वार्ता. प्रसङ्गतः कथाप्रसङ्गतः सिंहेन तदाख्येन सामन्तेन स्वयमप्रेरणात एवेदृशं वक्ष्यमाणं वचनम् अवादि उक्तम् // 43 // किन्तद्वचनमित्याह-राजान इति-- राजानः सन्ति राजेन्द्र बहवोऽपि महतमाः / तथाऽपि वपराजस्य केऽपि लोकोत्तरा गुणाः // 44 // राजेन्द्र ! वहवोऽपि महात्तमा महान्तो राजानः सन्ति, ननु ततः किमित्याह-तथाऽपि वप्रराजस्य तदाख्यनृपस्य केऽप्यनिर्वचनीया लोकोत्तराः अलौकिका गुणाः सन्तीति शेषः, ये गुणा अन्यत्र नोपलभ्यन्ते इति भावः // 40 // अथ तच्छुत्वा मानराजक्रोधमाह-राजेति. राजसिंहासनासन्नः स मानी राजनन्दनः / कुद्धो जगौ ममाग्रे रे ! किं वर्णयसि तं शठ ! // 45 // राजसिंहासनस्य नृपासनस्य आसन्नः नृपपुत्रत्वात् समीपस्थः स मानी राजनन्दनः राजपुत्रः मानराजः कुद्धः सन् जगौ, किमित्याह-रे शठ ? अविचारिन् ? ममाग्रे तं वप्रराजं किं वर्णयसि महत्तमस्य सर्वगुणयुक्तस्य मम मानराजस्याने सर्ववस्तुतुच्छ एवेति तद्वर्णनं ममापमान इति // 45 // अथ सिंह प्रत्युत्तरमाह-प्राञ्जल इति पाञ्जलः माजलीभूय सोऽजल्पत् किं प्रकुप्यसि ? / देव ! नो मत्सरो युक्तः सतां साधुप्रशंसने // 46 // प्राञ्जलः ऋजुः स सिंहसामन्तः प्राञ्जलीभूयाञ्जली वध्वाऽजल्पत् किमित्याह-किं कुप्यसि !